________________
स्तुतिचतुर्विशतिका
[५ श्रीमतिसर्वज्ञस्य सिद्धान्तस्य स्मरणम्
मतिमति जिनराजि नरा
ऽऽहितेहिते रुचितरुचि तमोहेऽमोहे । मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥ ३ ॥
-आर्या ज०वि०-मतिमतीति । अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् । मो भव्यास्मन् ! यत् मतं-दर्शनं जिनराजि-जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चितं स्मर-ध्यायेति क्रियाकारक योजना । अत्र ' स्मर' इति क्रियापदम् । कः कर्ता ? ' त्वम् ।। किं कर्मतापन्नम् ? 'मनम् । कथं ? ' नूनम् ।। मतं कथंभूतं ? 'तत् । तत् किम् । यजिनराजि अस्ति । अत्रापि 'अस्ति ' इति क्रियापदम् । किं कर्तृ ? ' यत् ।। कस्मिन् ? 'जिनराजि । मतं पुनः कथंभूतं ? 'अतनूनम्' तनु च ऊनं च यन्न भवति तत् तथा। जिनराजि कथंभूते ? 'मतिमति' गर्भ वासादिष्वप्यवस्थासु सातिशयमतियुक्ते । नित्ययोगादावयं मतुप्पत्ययः । पुनः कथं० ? ' नराहितहिते । नराणां आहितं-कृतं ईहितं-वाञ्छितं येन स तथा तस्मिन् । पुनः कथं ? 'रुचि: तरुचि । रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् । पुनः कथं० ? ' तमोहे ' तमःअज्ञानं हन्ति जहाति वा स तमोहस्तस्मिन् । पुनः कथं० ? ' अमोहे ' मोहरहिते । त्वं कथंभूतः समित्याह । ' अस्मराधीरधीः । न स्मरेण अधीरा धीर्यस्य स तथा। तादृशस्यैव स्मरणोचितत्वात् । पुनः कथं० ? 'सुमतः' प्राणिरक्षादिक्रियया सुष्ठ अभिप्रेतः संमत इत्यर्थः । कस्य? 'असुमतः । प्राणिनः । अत्रैकवचनस्य तु जात्यपेक्षया प्रयोगः ॥
अथ समासः-जिनेषु राजत इति जिनराट् 'तत्पुरुषः । यद्वा जिनानां जिनेषु वा राट् 'तत्पुरुषः' । आहितं ईहितं येन स आहितेहितः 'बहुव्रीहिः' । नराणां आहितेहितः नराहि. 'तत्पुरुषः । तस्मिन् नराहि० । रुचिता रुक् यस्य स रुचितरुक् बहुव्रीहिः । तस्मिन् रुचि०। तमो हन्ति जहाति वा तमोहः ' तत्पुरुषः । तस्मिन् तमोहे । न विद्यते मोहो यस्य सोऽमोहः 'तत्पुरुषः । तस्मिनमोहे । तनु च तत् ऊनं च तनूनं 'कर्मधारयः । न तनूनं अतमूनं
तत्पुरुषः। न धीरा अधीरा' तत्पुरुषः ।। स्मरेण अधीरा स्मराधीरा 'तत्पुरुषः । स्मराधीरा धीर्यस्य स स्मराधीरधीः 'बहुव्रीहिः । न स्मराधीरधीः अस्मरा० ' तत्पुरुषः । सुष्ठ मतः सुमतः ' तत्पुरुषः। ॥ इति काव्यार्थः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org