________________
जिनस्तयः]
स्वतियतर्विशतिका
सौ० वा-विधुतारा इति । जिनाः!-तीर्थकराः! हितं-पथ्यं तनुत-विस्तारयत इत्यन्वयः । 'तनुत' इति क्रियापदम् । के कर्तारः ? । जिनाः । तनुत-विस्तारयत । किं कर्मतापन्नम् ? । 'हितं' पथ्यम् । किविशिष्ठा जिनाः। विधुतं-त्यक्तं अरीणां समूहः आरं, अथवा अरणं भ्रमगं आरं चतुतिलक्षणं यैस्ते — विधुताराः ' । पुनः किंवि० जिनाः ? । विषु:-चन्द्रः तद्वत् तारा-उज्ज्वलाः 'विधुताराः'। पुनः किंवि० जिनाः ? । 'सदानाः ' सत्यागाः । कथम् ? । 'सवा' नित्यम् । पुनः किंवि० जिनाः ? । जितं अघातं-न घातयोग्यं अघं-पापं यैस्ते 'जिताघाताघाः । पुनः किंवि० जिनाः ? । अपगतः अतनुः-महान तापो येषां ते 'अपातनुतापाः' । पुनः किंवि० जिनाः । आहितः-स्थापितः पत्तो वा मानवाना-मनुष्याणां नवः-प्रत्ययो विभवः-ऐश्वर्य यैः ते 'आहितमानवनवविभवाः'। पुनः किंवि०जिना:?: विगत:-विशेषेण गतो भवः-संसारो येषां ते 'विभवाः । एवंविधा जिनाः । हितं तनुतविस्तारयत । इति पदार्थः॥
__ अथ समासः-अरीणां समूहोआरम्, अथवाअरणं-भ्रमण आरं, विधुतं आरं यैस्ते विधुताराः। विधुबत् ताराः विधुताराः । दानेन सहिताः सदानाः । घात्यते इति घातं, न घातं अघातं, अघातं च तत् अर्थ च अघाताचं, जितं अघाताचं यैस्ते जिताघाताधाः । न तनुः अतनुः, अतनुश्चासौ तापश्च अतनुतापा, अपगतः अतनुतापो येभ्यः ते अपातनुतापाः । नवश्चासौ विभवश्च नवविभवः, मानवानां नवविभवः मानवनवविभवः, आहितः मानवनवविभवो यैस्ते आहितमानवनवविभवाः । विगतो भवः संसारो येषां ते विभवाः॥ इति द्वितीयवृत्तार्थः ॥ २॥
दे० व्या०-विधुतारा इति । हे जिनाः-तीर्थकराः । यूयं हितं-पथ्यं सदा-निरन्तरं यथा स्यात् तथा तनुत-विस्तारयत इत्यन्वयः ! 'तनु विस्तारे ' इति धातुः । 'तनुत' इति क्रियापदम् । के कत किं कर्मतापन्नम् ? । हितम् । किंघिशिष्टा यूयम् ।। 'विधुताराः 'अरीणां-शत्रूणां समूहः आरम्, विशेषेण धुतं-कम्पितं आरं यः ते तथा । अत्र आरपदंन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् । तथा च ते विधुता:-स्ववशे कृताः यैरिति भावः । पुनः किंविशिष्टाः।' विधुताराः ' विधुः-चन्द्रः तद्वत् तार :उज्ज्वलाः निखिलकर्ममलापगमात् सर्वदा मलोज्झितशरीरत्वाच्चेति भावः । पुनः किंविशिष्टाः ? । 'सदानाः' दान-वितरणं तेन सह वर्तमानाः सांवत्सरिकदानदायकत्वात् । पुनः किंविशिष्टा जिनाः। 'जिताघातापाः, जितं-पराजितं अघातं-घातरहितं अघं-पापं यः ते तथा । हिंसामधानस्याघस्य सर्वदैव निरस्तत्वात् तद्भिन्नमप्यघं तैर्दूरतोऽपास्तमिति भावः । वस्तुतस्तु जितं आघाताचं आघात:-प्राणिवधः तत्संबन्धि अघं-पापं यैस्ते तथा। अन्यागमोक्तहिंसाप्रधानमुपायस्वमदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपादिध्वंसका इत्यर्थः । पुनः किंविशिष्टाः । 'अपातनुतापाः' अपगतः अतनुः-प्रचुरः तापः-सन्तापो येभ्यते तथा ! तदनु क्रोधादीनां मूलतः छिन्नत्वात् । पुनः किंविशिष्टाः । 'आहितमानवनवविभवाः' आहित:पूरितो मानवाना-मनुष्याणां नवः-प्रत्ययः अपूर्व इतियावत् विभवः-ऐश्वर्य यैस्ते तथा । पुनः किंविशिष्टाः 'विभवाः । विगतो भवः-संसारो येषां ते तथा ॥ इति द्वितीयवृतार्थः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org