________________
५०
स्वतिचतविंशतिका
[५ श्रीसमतिमानाः । पुनः कथं० १ जिताघाताघाः । अघातं-घातवर्जितम्, केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघं-पापं तत् जितं यैस्ते तथा । पुनः कथं० ? 'अपातनुतापाः । अतनुः-महान तापः-सन्तापः, अतनुतापः सोऽपगतो येभ्यस्ते तथा । पुनः कथं० १ 'आहितमानवनवविभवाः' आहितो-जनितो मानवाना-नराणा नवः-प्रत्ययः विभवः-ऐश्वर्य यैस्ते तथा। पुनः कथं० १ 'विभवा" विगतो भवः-संसारो येभ्यस्ते तथा । एतानि सर्वाण्यपि जिनानां विशेषणानि सम्बोधनपुर, सारेणापि व्याख्यातुं घटन्ते ॥
अथ समासः-विधुतं आरं आरो वा यस्ते विधु० 'बहुव्रीहिः' । विधुवत् तारा विधु० 'तपुरुषः । सह दानेन वर्तन्ते ये ते सदानाः 'बहुव्रीहिः' । न विद्यते घातो यस्य तव अघातं 'बहुव्रीहिः । अघातं च तत् अघं च अधाताचं 'कर्मधारयः।। जितं अघाताघं यस्ते जिताघाताघाः 'बहुव्रीहिः । न तनुः अतनुः 'तत्पुरुषः । अतनुश्चासौ तापश्च अतनुतापर 'कर्मधारयः' । अपगतः अतनुतापो येभ्यस्ते अपा० 'बहुव्रीहिः' ! नवश्वासौ विभवश्व नवविभवः'कर्मधारयः।।मानवानां नवविभवो मानव तत्पुरुषः'। आहितो मानवनवविभवो यस्ते आहि० 'बहुव्रीहिः । विगतो भवो येभ्यस्ते विभवाः ‘बहुव्रीहिः ॥ इति काव्याः ॥२॥
सि०७०--विधतेति । हे जिनाः ! जयन्ति रागद्वेषानिति जिनाः-तीर्थङ्कराः ! ययं हितंपथ्यं सदा-नित्यं तनुत-विस्तारयतेत्यर्थः । तनु विस्तारे' 'आशी:प्रेरणयोः ' ( सा० सू० ७.३ ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । 'तनादेरुप्' ( सा० सू० ९९७ )। तथाच 'तनुत । इति सिद्धम् । अत्र 'तनुत । इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मतापन्नम् ! । हितम् । कथम् ! । सदा इति क्रियाविशेषणम् । कथंभूता जिनाः ।' विधुताराः ' विधुतं-निरस्तं अरीणां समूहः आरम्, समूहार्थे अण् यैस्ते तथा । अत्रारणपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् । तथा च ते । विधुताः-स्ववशे कृताः यैरिति भावः । यद्वा विधुतं 'ऋ गतौ' इति धातोः अरणन आरः-भ्रमणं अषोत् सांसारिक यैस्ते विधुतारा इत्यर्थः । पुनः किंविशिष्टा विधुताराः ।। ' विधुताराः ' विध:-चन्द्रः सदत वारा विधुताराः चन्द्रवन्निमला इत्यर्थः । पुनः कथंभूताः । — सदानाः' सह दानेन वर्तमानाः सदानाः । पुनः कथंभूताः ? । ' जिताघाताघाः ' न विद्यते घातो यस्य तत् अघात-घातवर्जितं केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघं-पापं तत् जितं यैस्ते तथा । अघातं च तत् अघं चेति पूर्वं 'कर्मधारयः' । अन्धागमोक्तहिंसाप्रधानकर्मसु पापत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्नदर्शनमुखेन + हिंसाजन्यसकळपापविध्वंसका इत्यर्थः । पुनः कथंभूताः ? । ' अपातनुतापाः ' अतनुः-महान् चासौ तापः-सन्तापः अतनुतापः सोऽपगतो येभ्यः ते तथा । पुनः कथंभूताः? । 'आहितमानवनवविभवाः' आहितो-जनितो मानपानां-मनुष्याणां नवः-प्रत्ययास चासौ विभवः-ऐश्वर्य यैस्ते तथा । पुनः कथंभताः । । 'विमवाः । विगतो भक समारो येभ्यस्ते विमवाः । एतानि सर्वाण्यपि विशेषणानि सम्बोधनपुरस्कारेणापि व्याख्यातुं घटन्ते ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org