________________
जिनलतयः
स्तुतिचतुर्विशतिका
अथ समासः-मदश्च मदनश्च मदमदनौ, मदमदनाभ्यां रहितः मदमदनरहितः, तस्य सं० हे मदमदनरहित ।। नराणां नरेभ्यो वा हितः नरहितः, तस्य सं० हे नरहित !। सु-शोभना मतिर्यस्य स सुमतिः, तस्य सं० हे सुमते । । सुष्ठु मतं सुमतं, तस्य इनः सुमतेनः, तस्य सं० हे सुमतेन ।। कनकवद तारः कनकतारः, तस्य सं० हे कनकतार ! । इता-गता अरयो यस्मात् यस्य वा इतारिः, तस्य सं० हे इतारे! । दम-इन्द्रियनोइन्द्रियविषयप्रशमरूपं ददातीति दमदः, तं दमदम् । अपगतः आलयो यस्मात् यस्य वा अपालयः, तस्य सं० हे अपालय !। अरातय एव क्षतिः अरातिक्षतिः, अरातिक्षतिरेव क्षपा अरातिक्षतिक्षपा, तस्याः अरातिक्षतिक्षपातः, पातीति पाता । तस्य सं० हे पातः ।। अस्यां स्तुतौ आर्याछन्दः । सर्वेष्वपि पादेषु यमकालंकारः ॥ इति प्रथमवृत्तार्थः ॥१॥
दे० व्या०-मदमदनेति । हे सुमते !-सुमतिनाथ ! त्वं दमद-प्रशमदम्, जनमितिशेषः, दरात्-इहलोकादिभेदभिन्नसाध्वसात् पालय-रक्षेत्यन्वयः। अत्र 'पालय' इति क्रियापदम् । कः कर्ता ?। त्वम् । के कर्मतापनम् । दमदं जनम् । कस्मात् ।। दरात् । 'मदमदनरहित'! इति । मदः पूर्वोक्तः मदन:-कामः अनयोः द्वन्द्वः' ताभ्यां रहितो-विमुक्तः तस्यामन्त्रणम् हे मदमदनरहित !'नरहित ! ' इति। नराणां-मनुष्याणां हितो-हितकारकः तस्यामन्त्रणम् हे नरहित !। 'सुमतेन!' इति । सुष्टु-शोभनं मतं-प्रवचनं येषां ते सुमताः-सुनयः तेषाम् । यद्वा सुष्ठ-शोभनं यन्मतं-राद्धान्तः तस्य इनः-प्रभुः तस्यामन्त्रणम् । यद्वा ममतेन . करणभूतेन।'कनकतार!' इति । कनक-सुवर्ण तद्वत् तारः-उज्ज्वलः तस्यामन्त्रणम् । 'इतारे!' इति । इता-गता अरयः-शत्रवः यस्य स तस्यामन्त्रणम् । 'अपालय ! ' इति । अपगतः आलयो-गृहं यस्य स तस्यामन्त्रणम् । 'पातः !'। इति । पाति-रक्षति इति पाता तस्यामन्त्रणम् । कस्मात् । 'अरातिक्षतिक्षपातः ' अरातिभ्यःशत्रभ्यः क्षतिः-उपमर्दः सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् । “शर्वरी क्षणदा क्षपा" इत्यमिधानचिन्तामणिः (का०२, श्लो०५५) एतानि सर्वाणि भगवतः सम्बोधनपदानि ॥ इति प्रथमवृत्तार्थः॥१॥
समग्रजिनेश्वराणां विज्ञप्तिः
विधुतारा ! विधुताराः !
सदा सदाना ! जिना ! जिताघाताघाः ! । तनुतापातनुतापा! हितमाहितमानवनवविभवा ! विभवाः ! ॥२॥
आर्या ज०वि०-विधुतोति। हे जिनाः!-तीर्थकरा! यूयं हितं-पथ्यं सदा-नित्यं तनुत-विस्तारयत । अत्र 'तनुत' इति क्रियापदम् । के कतारः? 'यूयम् । किं कर्मतापनम् १" हितम् ।। कथम् ? 'सदा' नित्यम् । कथंभूता जिनाः ? 'विधुताराः' विधुतं-निरस्तं आरं-अरीणां समूहो यैस्ते तथा । यद्वा अरणं-आरो-भ्रमणं अर्थात् संसारः स विधुतो यैस्ते तथा । पुनः कथं० ? 'विधुताराः' विधुवत-चन्द्रवत् तारा-उज्ज्वलाः । पुनः कथं० १ ' सदाना: ' सह दानेन पर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org