________________
स्तुति चतुर्विंशतिका
[ ५ श्रीसुमति
हे अपालय ! | अरातिभ्यः क्षतिः अरातिक्षतिः ' तत्पुरुषः ' । अरातिक्षतिरेव क्षपा अराति० ' कर्मधारयः ' । तस्याः अराति० ॥ इति काव्यार्थः ॥ १ ॥
५४
1
सि० ० -- पदमदनेति । शोभना मतिरस्येति सुमतिः, तस्य सम्बोधनं हे सुमते ! - सुमतितीर्थपते ! त्वं दमदं प्रशमदायिनं अर्थान्मुनिमेव, श्रमणानां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, “दमस्तु दमधे दण्डे. कर्दमे दमनेऽपि च " इति विश्वः, दरात्-त्रासात् पालय-रक्षेत्यर्थः । ' पाल पालने ' घ.तोः ' आशीःप्रेरणयो:' (सा०सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हि: । 'चुरादेर्जि' (सा०सू० १०३१ ) नि:, 'अप्०' (सा० सू० ६९१), ' गुण:' ( सा० सू० ६९२ ) 'ए अय्' (सा० सू० ४ १ ), ' अत: ' ( सा० सू० ७०५ ) इति हेर्लुक् । तथाच ' पालय ' इतेि सिद्धम् । अत्र ' पालय ' इति क्रियापदम् । कः कर्ता । त्वम् । किं कर्मतापन्नम् ! | दमदम् । कस्मात् ? | दरात् अर्थात् संसा रमयात् । “ आतङ्कस्तु दरत्रासौ, भीतिमीः साध्वसं भयम् " इति वैजयन्ती । अन्यानि सर्वाण्यपि सुमति - जिनस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्- हे ' मदमदनरहित ! ' मद:- जात्यादिमेदादष्टविधः, मदनःकन्दर्पः, मदश्च मदनश्च मदमदनौ ' इतरेतरद्वन्द्वः ' ! ताम्यां रहितो मदमदनरहितः, तस्य सम्बोधनं हे मदमदनरहित ! | हे ' नरहित ! ' नरेभ्यो हितः - हितकारी, तस्य सम्बोधनं हे नरहित ! | हे ' सुमतेन ! ' सुमतं - शोभनं मतं, तस्य इनः - प्रभुः स्वातन्त्र्येण प्रणेतृत्वात्, तस्य सम्बोधनं हे सुमतेन ! | " इनः सूर्ये नृपे त्यो " इति विश्वः । कनकं सुवर्ण तद्वत् तारः-उज्ज्वलः, तस्य सम्बोधनं हे कनकतार ! । इता - गता अरयो - वैरिणो यस्मात् स तथा तस्य सम्बोधनं हे इतारे ! | अपगतः आलयो - गृहं यस्मात् सः अपालयः, तस्य सम्बोधनं हे 'अपालय !' । पातीति पाता - रक्षकः, तस्य सं० हे ' पातः !' । कस्मात् । ' अरातिक्षतिक्षपातः ' अरातयो - वैरिणः तेभ्यः समुत्पन्ना या क्षतिः - उपमर्दः सैव रौद्रात्मकत्वात् क्षपारात्रिः तस्याः सकाशात् । सार्वविभक्तिकस्तस् । " निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा " इति हैमः ( का० २, श्लो० १९ ) ॥ १ ॥
1
सौ० वृ० यः अभिनन्दनो भवति स सुमतिरेव भवति । अनेन सम्बन्धेनायातस्य श्री सुमतिनाथपञ्चमजिनस्य स्तुतिव्याख्यानं लिख्यते । मदमदनेति ।
मो-मानः जात्याद्यष्टविधो वा, मदनः कामः ताभ्यां रहितो-वियुक्तः तस्य सं० हे 'मदमदनरहित ! | नरा - मनुष्याः तेषां हितः सुखकृत् तस्य सं० हे ' नरहित ।' । सु-शोभना मतिः यस्य स सुमतिः, तस्य सं० हे ' सुमते ।। भगवति गर्भस्थे सति एकसुतसपत्नीद्वयस्य कलहभञ्जनात् । सुमतंसम्यक् दर्शनं स्याद्वादमयं तस्य इनः - स्वामी सुमतेनः, तस्य सं० 'सुमतेन ! कनकं स्वर्ण तद्वत् तारः- उज्ज्वलः - गौरः कनकतारः, तस्य सं० हे कनकतार !' । इताः क्षयं गताः अरयो यस्य स इतारिः, तस्य सं० हे इतारे !' । अपगतः- उज्झितः आलयो-गृहं येन सः अपालयः तस्य सं० हे 'अपालय ! ' । त्वं दमदं प्रशमदं पुरुषं वरात् बाह्याभ्यन्तरभयात् सुमतेन-करणभूतेन पालय इत्य'पालय' इति क्रियापदम् । कः कर्ता ? । त्वम् ।' पालय' रक्ष । कं कर्मतापन्नम् । दमदम् । कस्मात् ? | दरात् । हे 'पातः ! ' हे रक्षक ! । कस्मात् ? । अरातिः - शत्रुः तदेव क्षतिः-क्लेशानर्थदायित्वात् प्रहरणं सैव क्षपा - रात्रिः तस्याः अरातिक्षतिक्षपातः सर्वविघ्नोपशामकः । इति पदार्थः
"
न्वयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org