________________
५ श्रीसुमतिजिनस्तुतयः अथ श्रीसुमतिनाथस्य स्तुतिः
मदमदनरहित ! नरहित ! __ सुमते ! सुमतेन ! कनकतारेतारे ! । दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ॥ १॥
-आर्यागीतिः ज० वि०-मदमदनति। हे सुमते !-सुमतितीर्थपते ! त्वं दमद-प्रशमदायिनं, अर्थात् श्रमणश्रमणीनां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, दगत्-त्रासात् पालय-क्षेतिक्रियाकारकसम्बन्धः । अत्र'पालय ' इति क्रियापदम् । कः कर्ता ? 'त्वम् । कं कर्मतापमम् ? ' दमदम् । कस्मात् ! 'दरात्' । अपराणि सर्वाण्यपि सुमतितीर्थपतेः सम्बोधनानि । तेषां व्याख्या त्वेवम्हे 'मदमदनरहित । मदः-जात्यादिभेदादष्टविधः मदनः-कन्दर्पः ताभ्यां रहितः-त्यक्तः तत्सम्बो. हे मद । हे 'नरहित !' नरेभ्यो हितो-हितकारी तत्सम्बो. हे नर० । हे 'सुमतेन !" सुमतं-शोभनागमः तस्य इन:-प्रभुः तस्य स्वातन्त्र्येण प्रणेतृत्वात् तत्सम्बो० हे सुमतेन ।। 'कनकतार !' कनक-सुवर्ण तद्वत् तार!-उज्ज्वल!! यद्वा सुमतेन कनकतार इत्येकमेव सम्बोधनम् । तथा चैवं व्याख्यानम्-सुमतेन करणभूतेन कृत्वा कनकतार ! । हे 'इतारे ' इता:गताः अरयो-वैरिणो यस्मात् स तथा तत्सम्बो. हे इतारे । । हे ' अपालय !' अपगत आलयो यस्मात् स तथा तत्सम्बो० हे अपालय ! हे 'पातः पातीति पाता-रक्षकः तत्सम्बो० हे पातः ! । कस्मात् ? ' अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पना या क्षतिःउपमर्दः सैव रौद्रात्मकत्वात् क्षपा-रात्रिस्तस्याः सकाशात् ॥
अथ समासः-मदश्च मदनश्च मदमदनौ ' इतरेतरद्वन्द्वः । मदमदनाभ्यां रहितः मद० 'तत्पुरुषः तत्सम्बो० हे मद० । नरेभ्यो हितो नरहितः ' तत्पुरुषः । तत्सम्बो० हे नरहित । शोभना मतिर्यस्य स सुमतिः 'बहुव्रीहिः ।। तत्सम्बो० हे सुमते ! । शोभनं मतं सुमतं 'तत्पुरुषः' । सुमतस्य इनः सुमतेनः 'तत्पुरुषः'। तत्सम्बो० हे सुमतेन ! । यद्वा शोभनं मतं सुमतं ' तत्पुरुषः' । तेन सुमतेन । कनकवत् तारः कनकतारः 'तत्पुरुषः'। तत्सम्बोधनं हे कनक० । इता अरयो यस्मात् स इतारिः 'बहुव्रीहिः । तत्सम्बोधनं हे इतारे ।।दमं ददातीति दमदः 'तस्पुरुषः' । तं दमदम् । अपगतः आलयो यस्मात् सोऽपालयः ‘बहुव्रीहिः'। तत्सम्पो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org