________________
जिनसतयः]
स्वातिचतुर्विशतिका सि० वृ० - विशिखशवेति । भो भव्यप्राणिन् ! त्वं इह-अस्मिञ्जगति रोहिणी-रोहिणीनाम्नी देवी नम-प्रणामविषयीकुरुष्वेत्यर्थः । णम प्रड्डीमावे' धातोः ‘आशी:प्रेरणयोः । (सा० म० ७०३) कतरि परस्मैपदे मध्यमपुरुषैकवचनम् । णम् अग्रे हिः ।' आदेः ष्णः स्नः' ( सा० म० ७४८ ) इति णस्य नः । अप्' ( अतः ) हेर्लक् । तथाच 'नम' इति सिद्धम् । अत्र ‘नम' इति क्रियापदम् । कः कर्ता ! । त्वम् । कां कर्मतापन्नाम् । 'रोहिणी' रोहयत्यवश्यं रोहिणी, तां रोहिणीम् । कुत्र । इह । कथंभूतां रोहिणीम् ? । परिगतां-परिवारितां समन्वितामितियावत् । केन ? । धनुषा-चापेन । 'धनार्तिचक्षिपवपितपिजनियजिभ्य उस्प्रत्ययो भवति' (सा. सू० १३९७)। कीदृशेन धनुषा ? | 'विशिखशङ्खजुषा' विशिख:-शरः शङ्खः-कम्बुः विशिखश्च शङ्खश्च विशिखशजौ इतरेतरद्वन्द्वः', विशिख. शौ जोषते इति विशिखशङ्खजुट , तेन विशिखशङ्खजुषा । 'जुषी प्रीतिसेवनयोः'। अस्तसत्सुरभिया' अस्त-निरस्तासत्सुराणां-प्रकृष्टदेवानां भी:-भयं येन तत् तथा । तेन भीशब्दोऽत्र स्त्रियां सम्पदादित्वात् विबन्तः । ‘किंवन्ता धातुत्वं नो जहत ' इति वार्धातोः [इयुग स्वरे] ' (सा. सू० १८.) इति इयङ । पुनः कथंभूतेन ? । ' ततनुन्नमहारिणा' तता:-प्रसृताः ते च ते नुन्नाः-प्रेरिताः-निर्जिताः महान्तः अरयो-वैरिणो येन तत् तथा तेन । पुनः कथंभूतेन ? । हारिणा-मनोहरेण । पुनः कथंभूतां रोहिणीम् ? । विशदांनिर्मलां, शरीरमनसोर्निर्मलत्वादिति भावः । पुनः कथंभूताम् ! । 'सुरभियाततर्नु ' सुरभिः-धेनुः तस्यां याता-प्राप्ता तनुः-शरीरं यस्याः सा तथा तां, धेनुसमधिदामित्यर्थः । 'सुरभिर्गवि च स्त्रियां' इत्यमर। (श्लो० २६०८ ) । द्रुतविलम्बितं छन्दः । ' द्रुतविलम्बितमाह नभी भरौ' इति तल्लक्षणम् ॥ ४ ॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनस्तुतिवृत्तिः ॥ ४ ॥ सौ० वृ०-विशिखशङ्केति। रोहिणीं देवीं इह-संसारे त्वं नम। 'नम' इति क्रियापदम् । कः कर्ता । त्वम् । नम' प्रणम । कां कर्मतापन्नाम् ? । 'रोहिणीं' रोहिणीनाम्नी देवीम् । किंविशिष्टां रोहिणीम् । 'परिगता' परिमण्डितां-व्याप्ताम् । केन ? । 'धनुषा' कार्मुकेण । किंविशिष्टेन धनुषा ? । विशिखः-शरः शङ्कर-कम्बुः ताभ्यां जुष-सहितं तेन 'विशिखशबाजुषा'। पुनः किंविशित निराकृता सत्सुराणां-शोभनदेवानां भीः-भयं येन सः अस्तसत्सुरभीः तेन 'अस्तसत्सुरमिया'। पुनः किं० धनुषा ? । तता-विस्तृता नुन्नाः-प्रेरिताः महान्तो रयाः-वेगाः तथा अरय:-शत्रवो वा येन तत् ततनुम्नमहारि, तेन 'ततनुन्नमहारिणा'। पुनः किंविशिष्टां रोहिणीम् । 'विशदां निर्मलाम् । गौरवर्णामित्यर्थः । पुनः किं० रोहिणीम् ? । सुरभिणा-गवा याता-उत्पाटिता तनुः-शरीरं यस्याः सा सुरभियाततनुः, तां 'सुरभियाततनुम्' । पुनः किंविशिष्टेन धनुषा ? । 'हारिणा' मनोहरेण-मनोक्षेन। इति पदार्थः॥
अथ समासः-विशिखश्च शसश्च विशिखशङ्खग, विशिखशङ्खौ जुषति-योजयतीति विशिखशहजट, तेन विशिखशङ्खजुषा । सन्तश्च ते सुराश्च सत्सुराः, सत्सुराणां भीः सत्सुरभीः, अस्ता सत्सरभीर्येन सः अस्तसत्सरभी:,तेन अस्तसत्सुरभिया। महान्तश्च ते रयाश्च महारया:, अथवा महान्तश्च ते अरयश्च महारयः, तता-जुन्ना महारया महारयो वा येन तत्
१'किवम् धातुत्वं न जहाति' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org