________________
स्तुतिचतुर्दिशतिका
[४ श्रीअमिमन्दन
रिति भावः। 'निर्मथितोद्धताजिनवरागमनोभवमाय, इति । आजि:-संग्रामः नवरागः-नूतनोऽभिलाप: मनोभव:-कामः माया-कैतवम् एतेषां पूर्व 'द्वन्द्वः,' ततः उद्धतपदेन 'कर्मधारयः, ततो निर्मथिता-निर्दलिता उद्धता आजिनवरागमनोभवमाया येन इति 'बहुव्रीहिः' । आगमसम्बोधनमेतत् । निर्मथितोद्धताजौ-उत्कटसंग्रामे नवरागो यस्य एतादृशं यन्मनस्तत्र भवा माया-निकृतियेनेत्यर्थो वा । प्रतिपदं उद्धतपदस्य सम्बन्धः इत्यपि कश्चित् ।। इति तृतीयवृत्नार्थः ॥ ३॥
श्रीरोहिण्यै नमः
विशिखशङ्खजुषा धनुषाऽस्तसत्
सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ ४ ॥
-दुत० ज० वि०----विशिखशवेति । भो भव्य ! प्राणिन् । त्वं इह-अस्मिन जगति रोहिणी-गोहियाख्या देवी नम-प्रणिपातविषयीकुरु । अत्र 'नम' इति क्रियापदम् । कः कर्ता ? ' त्वम् । को कर्मतापन्नाम् ? ' रोहिणीम् ' । कुत्र ? ' इह । कथंभूताम् ? 'परिगता' परिवारिताम्, समन्वितामितियावत् । केन ? धनुषा' कार्मुकेण । कथंभूतेन धनुषा ? 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्क:- कम्बुः तौ जोषते इति विशिखशङ्कजुट् तेन विशिखशङ्खजुषा । तत् तथा तेन पुनः कथंभूतेन ? 'अस्तसत्सुरभिया' अस्ता--निरस्ता सता-उत्कृष्टानां सुराणां-देवानां भी:-भयं येन तत् तथा तेन । पुनः कथं ? ' ततनुन्नमहारिणा । तता:--प्रसृताः नुन्ना:-प्रेरिता:-निर्जिता महान्तोऽरयो-वैरिणो येन तत् तथा तेन । पुनः कथं० १ 'हारिणा' मनोहरेण । रोहिणी पुनः कथंभूताम् ? 'विशदा' शुक्लवर्णाम् । पुनः कथं० ? 'सुराभियाततर्नु' सुरभिः-धेनुः तस्यां याता-माता-स्थिता तनुः-शरीरं यस्याः सा तथा ताम्, धेनुसमाधिरूढामित्यर्थः ।।।
__अथ समास:--विशिखश्च शङ्खश्च विशिखशडौ 'इतरेतरद्वन्द्वः। विशिखशङ्कौ जोषते इति विशिखशङ्खजुट् 'तत्पुरुषः । तेन विशि० । सन्तश्च ते सुराश्च सत्सुराः 'कर्मधारयः ।। सत्सुराणां भीःसत्सुरभीः 'तत्पुरुषः । अस्ता सत्सुरभीः येन तत् अस्तसत्० 'बहुव्रीहिः । तेन अस्तसत्।। तताश्च ते नुमाश्च ततनुन्नाः ‘कर्मधारयः । महान्तश्च तेऽरयश्च महारयः 'कर्मधारयः।। ततनुन्ना महारयो येन तत् ततनुन्न. 'बहुव्रीहिः । तेन ततनुन्नमहारिणा । सुरभी याता सुरभियाता ' तत्पुरुषः । सुराभियाता तनुर्यस्याः सा सुरभि० 'बहुव्रीहिः । तां सुराभ० ॥ इति काव्यार्थः ॥ ४॥
॥इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनजिनस्तुतिवृत्तिः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org