________________
स्तुतिब्रतुर्विशतिका संग्रामः नवः-नूतनः रागः-द्रव्यादावमिलाषःमनोभवः-कन्दर्पः माया-बन्ध (वश्च !)निका उद्धतानिध नवरागम्य मनोमवश्च माया च उद्धताजिनवरागमनोमवमाया — इतरेतरद्वन्द्वः । निर्मथिता उद्धतानिनवरागमनोभवमायाः येन स निर्मथितोद्धताजिनवरागमनोभवमायः, तस्य सम्बोधनम् । अथवा उद्धतानौ नवरागो यस्य वत् उद्धताजिनवराग, उद्धताजिनवरागं च तन्मनश्च उद्धतानिनवरागमनः, उद्धताजिनवरागमनसि मवा उद्धताजिनवरागमनोमवा, उद्धताजिनवरागमनोभवा चाप्तौ माया चेति · कर्मधारयः, ततो निर्मथिता उद्धृताजिनवरागमनोभवमाया येन स तथा । " आजिः स्त्री समभपौ च सङ्ग्रामे " इति मेदिनिः॥३॥
सौ वृ०-असुमतामिति । हे जिनवरागम !-तीर्थकरप्रवचन ! नः-अस्माकं आयत-विस्तीर्ण मवं-संसारं (त्वं ) प्रलघुतां-प्रकर्षण लघुतां-अल्पीयस्त्वं मय इत्यन्वयः। 'नय' इति क्रियापदम् । कः कर्ता ? । त्वम् । 'नय' प्रापय । कं कर्मतापन्नम् ? । 'भवं' संसारम् । पुनः कां कर्मतापन्नाम् ? । 'प्रलघुतां' प्रकर्षण हस्वत्वम् । अत्र ‘णी प्रापणे' इत्यस्य धातोद्विकर्मकत्वम् । केषाम् ? । 'नः' अस्माकम् । किंविशिष्टं भवम् । 'आयतं' विस्तीर्णम् । पुनः किंविशिष्टम् । तम् । तं कम्' । यो भवः-संसारःअसुमताप्राणिनां मृतिः-मरणं जातिः-जन्म ते एव अहितं-अपथ्यं तस्मै मृतिजात्यहिताय 'अस्ति' इति कियापदम् । कः कर्ता ?। यो भवः। 'अस्ति' विद्यते । किमर्थ-कस्मै ! । 'मृतिजात्यहिताय' मरणजन्माकुशलाय । केषाम् ? । 'असुमतां' प्राणिनाम् । पुनः किंविशिष्टं भवम् ? । निर्मथिता-. उन्मूलिता उद्धता आजिः-संग्रामःनवरागो-द्रव्याभिलाषो मनोभव:-काम:मायता-वञ्चनतात्मिका यस्मिन स 'निमेथितोद्धताजिनवरागमनोभवमायतम्' । यद्वा निर्मथितः उद्धत आजी-संग्रामे नवो-नूतनो यो रागः एतादृशं यन्मनः-चित्तं तस्माद् भवा-उत्पन्ना या मायता-वश्चनिका यस्मिन् तत् 'निर्मथितोचताजिनवरागमनोमवमायतम् । पक्षे भवः-शिवः तस्य मायता-वञ्चनिका तस्याःप्रलघुतां-हस्वत्वं त्वं नय । लोकोक्त्या ईश्वरस्य जगत्कर्तृत्वं प्रतीयते । “शिवेन निर्मिता माया, मायया निर्मितं जगत् " इति तद्विदः । तत्पक्षे इदमपि वक्ष्यमाणं युक्तम्-निर्मथितं उद्धतं-उत्पाटितं अजिनं-चर्म तद्वत् वरः अग:पर्वतः कैलासः तादृशं मनो यस्य स तादृशो यो भवः-शिवः तस्य माया-वश्वना तस्या लघुतां नय इत्यपि छायार्थेन आगतम । यो भवः-शिवः प्राणिनां जन्ममृत्यहितहेतुः इति माया अस्ति लोके। हे जिनवरागम! नः भवं प्रलयतां प्रापय । इति पदार्थः॥ ___ अथ समासः-असवः-प्राणा विद्यन्ते येषां ते असुमन्तः, तेषां असुमताम् । मृतिश्च जातिश्च मृतिजाती. मतिजाती एव अहितं मतिजात्यहितं. तस्मै मतिजात्यहिताय । जिन जिनवरागमः, तस्य सं० हे जिनवरागम!। लघोर्भावो लघुता, प्रकर्षेण लघुता प्रलघुता, तां प्रलघुताम् । आजिच नवरागश्च मनोभवश्च मायता च आजिनवरागमनोभवमायताः, निमेथिता उद्धता आजिनवरागमनोभवमायता येन तत् निर्मथितोद्धताजिनवरागमनोभवमायतम् । यद्वा निर्मथित:उन्मूलितः उद्धतः आजौ-संग्रामे नवरागो-द्रव्याभिलाषः मनोभवः-कामःमायता-कपटता निर्मथिताउन्मूलिता उद्धता-उत्कटा आजिनवरागमनोभवमायता यस्मिन् तत् निर्मथितोद्धताजिनवरागमनोभवमायतम्॥ इति तृतीयवृत्तार्थः ॥३॥
देव्या०-असुमतामिति । हे 'जिनवरागम!' जिनवराणां आगमः जिनवरागमः तस्यामन्त्रणम्, त्वं ना-अस्माकं तं भवं-संसारं प्रलघुतां-प्रकर्षेण स्वतां नय-प्रापयेत्यन्वयः। ‘णी प्रापणे, धातुः। नयः, इति क्रियापदम। कः कर्ता ?। त्वम।कं कर्मतापन्नमा भवम। किंविशिष्ट भवम? आयतं-प्रबलम। यत्त यो भवः असुमतां-प्राणिनां मतिजात्यहिताय स्यात् इत्यध्याहारः। ' स्यात् । इति क्रियापदम् । कः कर्ता। भवः। कस्मे? 'मृतिजात्यहिताय' मतिः-मरणं जातिः-जननम् अनयोर्द्वन्द्वः तयोः अहितं अपथ्यम् (तस्मै)। केषाम् । असुमताम् । यथा कुपथ्यकरणादू रोगिणा रोगवृद्धिः तथा भवकारणात् प्राणिनां मरणजननवृद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org