________________
स्तुतिचतुर्विशतिका
[श्रीअभिनन्दनउद्धताजिनवरागमनोभवा चासौ माया च उद्धताजि० ' कर्मधारयः' । निर्मथिता उद्धताजिनवरा. गमनोभवमाया येन स निर्मथितोद्धता० 'बहुव्रीहिः । यद्वा उद्धतं आजिनं यस्य उद्धताजिनः 'बहुव्रीहिः'। वरश्वासावगश्च वरागः 'कर्मधारयः' । वरागे मनो यस्य स वरागमनाः ‘बहुत्रीहिः । । उद्धताजिनचासौ वरागमनाश्च उद्धना० कर्मधारयः' । उद्धताजिनवरागमनाश्चासौ भश्च उद्धता० 'कर्मधारयः'। उद्धताजिनवरागमनोभवस्य माया उद्धता. तत्पुरुषः । निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितो. 'बहुव्रीहिः । तत्सम्बो० हे निर्मथितो० ॥ इति काव्यार्थः ॥३॥
सि० वृ०-असुमतामिति । जिनेषु वराः जिनवराः, तेषां आगमः-सिद्धान्तः तस्य सम्बोधनं हे जिनवरागम !-तीर्थङ्करसिद्धान्त ! त्वं न:-अस्माकं तं भव-संसारं आयतं दीर्घत्वं स च ( दीर्घ सन्तं ? ) प्रलघुतां-हस्वीयत्वं ( हसीयस्त्वं ? ) नय-प्रापयेत्यर्थः । 'णीञ् पापणे' धातोः 'आशीःप्रेरणयोः' (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । णाञ् अग्र हिः । ' आदेः प्णः स्नः' (सा० सू० ७४८) इति णकारस्य नकारः, ' अप्० ' ( सा० सू० ६९१ ), ' गुणः ' ( सा० स० ६९२ ), 'ए अय् ' ( सा० सू० ४ १ ), ' अतः' ( सा० सू० ७०५ ) इति हलुक्, 'स्वरहीन.' ( सा० पू० ३६ )। तथाच 'नय' इति निप्पन्नम् । अत्र ' नय' इति क्रियापदम् । कः कर्ता ? । त्वम् । कं कर्मतापन्नम् । भवम् । भुवश्च वाच्यः' इति णत्वाभावपक्षे अच् । " मरः संसारसत्ताप्ति-श्रेयःशंकरजन्नसु, इति विश्वः । नीधातोकिर्मकत्वाद् द्वितीयं कर्माह--कां कर्मतापन्नाम् ? । 'प्रलघुतां' प्रकर्षण लघुता प्रलघुता तां प्रलघुताम् । केषाम् ? । नः । यत्तदोरभिसम्बन्धात् तं कम् ! । यो भवः असुमता-प्राणिन मृतिनात्यहिताय-मृतिः-मरणं जाति:-जन्म मृतिश्च जातिश्च मृतिनाती — इतरेतरद्वन्द्वः', तद्रूपं यत् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः ।
" कर्तृकर्मक्रियादीनामवकाशो न चेद् यदि ।
अध्याहारस्तदा कार्यों, मुख्यार्थप्रतिपत्तये ॥" इति प्राञ्चः। चतुर्थी चेयं तादयें ज्ञेया । भू सत्तायाम् ' धातुः । अकर्मकोऽयम् । अग्रे परस्मैपदे प्रथमपुरुषैकवचनं तिप् । ' अप् कर्तरि । (सा० सू० ६९१) इत्यप् । ' गुणः ' ( सा० ० ६९२ ) इति गुणः । अवादेशः। 'स्वरहीनं.' ( सा० सू० ३६) । तथाच भवाति सिद्धम् । अत्र · भवति ' इति क्रियापदम् । कः कर्ता ? । यः । कस्मै ! । मृतिनात्यहिताय । केषाम् ! । असुपताम् । नोशब्दः अस्मच्छ ब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः । तथाहि-यो भवः असुमतां मृतिजा. त्यहिताय नो भवति प्राणिसम्बन्धिन्यौ ये मृतिनाती तयोः अहिताय न भवति । अवशिष्टं त्वकं जिनवरागमसम्बोधनम् । तस्य चायमर्थ:-हे 'निर्मथितीद्धताजिनवरागमनोभवमाय' ! उद्धतः- उद्दामः आनिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org