________________
जिनस्तुतयः
स्तुतिचतुर्विंशतिका
6
नय '
ज० वि० -- असुमतामिति । हे जिनवरागम ! हे तीर्थकर सिद्धान्त ! त्वं नः - अस्माकं तं भवं संसारं प्रलघुतां हसीयस्त्वं नय-प्रापय इति क्रियाकारकसम्बन्धः । अत्र इति क्रियापदम् । कः कर्ता ? ' त्वम् ' | के कर्मतापन्नम् ? ' भवम् ' । नीधातोर्द्विकर्मकत्वात् द्वितीयं कर्म आह - कां कर्मतापन्नाम् ? 6 लघुताम् ' | केपाम् ? ' नः । यत्तदोरभिसम्बन्धात् तं कम् ? यो भवः असुमत - प्राणिना मृतिजात्यहिताय - मृतिः-मरणं जातिः जन्म तद्रूपं यद् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः । चतुर्थी चेयं तादर्थ्य ज्ञेया । अत्र ' भवति' इति क्रियापदम् । कः कर्ता ? ' यः । कस्मै ? ' मृतिजात्यहिताय ' | केषाम् ? ' असुमताम् ' । नः इति शब्दोsस्मच्छन्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः । तथाहि--यो भवः असुमतां मृतिजात्यहिताय नो भवति--प्राणिसम्बन्धिन्यो ये मृतिजाती तोरहिताय न भवति, किन्तु तयोरुपचय हेतुत्वात् द्वितीय एव भवतीति भावः । अवशिष्टं त्वेकं जिनवरागमस्य सम्बोधनम् । तस्य चायमर्थ:- हे ' निषेधितोद्धताजिनवरागमनोभवमाय ! ' उद्धतः - उद्दाम: आजि:- संग्रामः नवो-नूतनो रागो-द्रव्यादावभिलाषः मनोभवः - कन्दर्पः मायावनिका एतानि निर्मथितानि अर्थात् निरस्तानि येन । अथवा उद्धताजी नवरा-नूतनरागयुकं यन्मनः- चित्तं तत्र भवा-संजाता या माया सा निर्मथिता येन । यद्वा ' उद्धताजिनः ' उत्क्षिप्तचर्मा, 'रागमनाः रागः - प्रधानशैलः अर्थात् कैलासम्तत्र मनो यस्य, एतादृशो यां भव:- शंकरः तस्य माया-संसारलणा सा निर्मथिता येन तत्सम्बो० हे निर्म० । अत्र तृतीयपक्षे भवस्तु सत्यकिनामा पुरुषविशेषा ज्ञेयः । तस्य संसारनिर्मथनं तु भगवदागमश्रवणमहिम्ना भविष्यति । भाविनि च भूतोपचाराद् भूतमेवेति युक्तमवेदमागमस्य सम्बोधनम् । उद्धताजिनवरागमनोरूपं भवस्य विशेषणद्वयं तु लोकयुक्त्यनुसारेण घटत एव ॥
-2
;
"
अथ समास: - मृतिश्च जातिश्व मृतिजाती इतरेतरद्वन्द्वः । न हितं अहितं तत्पुरुषः ' । मृतिजाती एवाहितं मृति० ‘कर्मधारयः । यद्वा मृतिश्च जातिश्व मृतिजाति ' समाहारद्वन्द्वः' । मृतिजाति एवाहितं मृति० ' कर्मधारयः । तस्मै मृति० । यद्वा मृतिजात्योर्मृतिजातिनो वाऽहितं मृतिजा ० ' तत्पुरुषः ' । तस्मै मृतिजा ० । जिनानां जिनेषु वा वग जिनवरा: ‘ तत्पुरुषः ' । जिनवराणामागमः जिनवरा ० ' तत्पुरुषः । तत्सम्बो० हे जिनवरा० । प्रकर्षेण लघुता मलघुता तत्पुरुषः ' । तां प्रलघुताम् । उद्धतश्चासावाजिश्व उद्धताजिः ' कर्मधारयः ' | नवश्वासौ रामश्र नवरागः ' कर्मधारयः' । उद्धताजिश्व नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभमायाः ' इतरेतरद्वन्द्वः ' । निर्मथिता उद्धताजि० येन स निर्मथितोद्धताजिनवरागमनोभवमायः बहुव्रीहिः ' । अथवा उद्धताजौ नवरागो यस्य तत् उद्धता ० बहुव्रीहि:' । उद्धताजिनवरागं च तन्मन उद्धताजि० ' कर्मधारयः । उद्धताजिनवरागमनसि भवा उद्धताजि० ' तत्पुरुषः ' ।
"
6
Jain Education International
For Private & Personal Use Only
૩૭
"
www.jainelibrary.org