________________
४६
स्तुतिचतुर्विशतिका
[श्रीअभिनन्दन
कुरुध्वम् । कस्मै ? । तमोहरणाय । कस्य ? । मम । किंविशिष्टा जिनवराः ? । इता-गता आमया-रोगा येभ्यः ते 'इतामयाः'। पुनः किं० जिनवराः ? । महान्ति-प्रौढानि अरीणि-धर्मचक्रादीनि येषां ते 'महारिणः'। जिनवराः किं कुर्वन्तः । 'प्रदधतः प्रकर्षण दधतः-धारयन्तः । कां कर्मतापनाम् । 'विश्वजनीनता ' सकलजनेषु मैत्रीभावम् । कस्याम् ? । 'भुवि ' पृथिव्याम् । किंविशिष्टा जिनवराः ! ! अमती--अमान्यो मोहो-मोहनीयकर्म रणः-संयामः तौ द्वो येषां ते 'अमतमोहरणाः । पुनः किं० जिनवरा 'यमहारिणः' मत्युहरणशीलाः । अथवा मतमोहो-दर्शनमूढत्वं तस्मात रण:-कलही बादलक्षणो सेषां ते अमतमोहरणाः ' तथा यमा-अहिंसासनृतारतेयब्रह्माकिञ्चनताः तैः हारिणीमनोहराः यमहारिणः' । इति पदार्थः ॥
___ अथ समास:-जयन्ति रागादीन शत्रन् इति जिनाः सामान्यकेलिनः, तेषु वरा जिनवरा:तीर्थकरनामकमादयवर्तिनः। इता:-क्षयं गता आमया-रागाचम्यात इतामयाः। तमसा हरणं तमाहरण तस्मतमाहरणाय। महान्ति अशीण चकाणि येषां ते महारिणः विश्वजनेषु हितं इति विश्वजनीनं, विश्व-- जनीनस्य भावो विश्वजनीनता, तां विश्वजनीनताम् । हितवात्सल्यार्थे जनीनप्रत्ययः । मोहश्च रणश्च मोहरणी, नमती अमती, अमती माहरणो येषां ते अमतमोहरणाः। यद्वा मतस्य मिथ्यादशेनस्य मोहः मतमोहः, मतमोहात रण: मतमोहरणः. न विद्यते मतमोहरणो येषां ते अमतमोहरणाः । यप्रं धारयन्तीति यमहारिणः, अथवा यमाः-पञ्च महानतानि तैः कृत्वा हारिणः-शोभमानाः यमहारिणः । इति द्वितीयवृत्तार्थः ॥२॥
दे० व्या-जिनवरा इति। हे जिनवरा:-तीर्थकराः । सूर्य मे-मम तमोहरणाय प्रयतध्द-प्रकर्षण यत्नं कुरुध्वम् इत्यन्वयः।' यती प्रयत्ने 'धातुः। प्रयतध्वम् इति क्रियापदभू । के कारः? । ययम्। कस्मे?' तमोहरणाय' तम:-अज्ञानं पापं वा तस्य हरणं-अपनयनं तस्मै । कस्य ।। मम । किविशिक्षा जिनवराः? । 'इतामया:' इता-गता आपया-रोगा येभ्यस्ते तथा । "आम आमय आकल्यः' इत्यभिधा नचिन्तामणिः (का०३, श्लो०९२७)। पुनः किंविशिष्टाः'। 'महावि:' महान्ति-प्रकृष्टानि अणि-चक्राणि येषां ते तथा धर्मचक्रवर्तित्वात् । पुनः किंविशिष्टाः । 'अमतमोहरणाः मोही-भ्रमः रणः-संग्रामः अनयोः पूर्व द्वन्द्वः, ततः अमती-अनभिप्रेती मोहरणी येषां ते तथेति समासः । अमो-रोगः तम:-अज्ञानम् ने हरन्ति-नाशयन्ति इति अमतमोहरणाः इत्यर्थो वा । पुनः किंविशिष्टाः ? । 'यमहारिणः' यमाः महाब्रतानि तैः हारिण:मनोहरा:- 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः" इत्यभिधानचिन्तामणिः ( का०१, श्लो०८१)।यमा एव हारः-कण्ठभूषणं येषां ते तथा। यम-मृत्युं हरन्तीत्येवंशीला यमहारिणः इति प्राञ्चः। जिनवराः किं कुर्वन्तः। प्रदधतः । काम् ।'विश्वजनीनतां' विश्वस्य-जगतः जनीनतां-हितकारिताम् । कस्याम् ? । भुवि ॥ इति द्वितीयवृत्तार्थः ॥२॥
आगम-स्तुतिः
असुमतां मृतिजात्यहिताय यो
जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताऽऽजिनवरागमनोभवमार्य ! तम् ॥ ३ ॥
-द्रुत.
१'मायतम्' इत्येकं पदं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org