________________
जिर]
स्तुति चतुर्विंशतिका
,
अथ समासः - जिनानां जिनेषु वा वराः जिनवरा: 'तत्पुरुषः ' । इता आमया येभ्यस्ते इतामया: ' बहुव्रीहिः ' । तमसो हरणं तमोहरणं ' तत्पुरुषः ' । तस्मै तमो० । महान्ति अरीणि येषां ते महारिणः ' बहुव्रीहिः ' । विश्वे च ते जनाव विश्वजनाः ' कर्मधारयः ' । विश्वजनानां हितो विश्वजनीनः । विश्वजनीनस्य भावो विश्व० तत्पुरुषः ' । तां विश्व० | मोहश्र रणश्च मोहरणौ ' इतरेतरद्वन्द्वः ' । न मतौ अमतौ ' तत्पुरुषः ' । अमतौ मोहरणौ येषां ते अमतमोहरणा: ' बहुव्रीहिः ? | यद्वा मतेषु मोहो मतमोह: ' तत्पुरुषः ' । मतमोहात् रणो मतमोहरणः ' तत्पुरुषः ' । न विद्यते मतमोहरणो येषां ते अमत० ' बहुव्रीहिः' । यमस्य हारिणो यमहारिणः । यमं हरन्तीति यमहारिण इति वा । उभयथाऽपि ' तत्पुरुषः ' । अथवा यहरिणो यमहारिणः ' तत्पुरुषः ' । इति काव्यार्थः ॥ २ ॥
सि० वृ० – जिनवरा इति । मिनाः - सामान्यकेवलिनः तेषु वराः - प्रधानाः तीर्थङ्कराः तेषां सम्बोधनं हे जिनवराः ! । यूयं मम तमोहरणाय तमः - पापं अज्ञानं वा तस्य हरणं - अपहारः तस्मै भुवि - पृथिव्यां प्रयतध्वं—प्रयत्नं कुरुध्वम् इत्यर्थः । ' यती प्रयत्ने' धातोः ' आशीःप्रेरणयोः ' (सा० सू० ७०३ ) कर्तरि आत्मनेपदे मध्यमपुरुषबहुवचनम् । प्रपूर्वकः यत् अग्रे ध्वम् । 'अप्० ' ( सा० सू० ६९१ ), 'स्वर हीनं ० ' (सा० सू० ३६ ) । तथाच प्रयतध्वमिति सिद्धम् । अत्र 'प्रयतध्वम्' इति क्रियापदम् | के कर्तारः ? | यूगम् । कस्मै ? । तमोहरणाय । कस्य ? | मम । जिनवराः किं कुर्वन्तः ? | प्रदधतः - धारयतः । कां कर्म तापन्नाम् । 'विश्वजनीनता ' विश्वजनानां सर्वलोकानां हित विश्वजनीनम् तस्य भावः तत्ता तां विश्वजनीनताम् ' आत्मविश्वमातृभोगोत्तरपदात् ' इति खः खस्य च इनादेशः । कस्याम् ? । भुवि - पृथिव्याम् । कथंभूता जिनवरा: ? | ‘ महारिणः ' महान्ति - तेजोवन्ति अशणि-चक्राणि येषां त महारिणः धर्मचक्रवर्तिनः, तेषां पुरो धर्मचक्रचालनादिति भावः । " अरं शीघ्र च चक्राङ्गे शीघ्रगे पुनरन्यवत् " इति विश्वः । पुनः कथंभूताः ? । ' अमतमोहरणा: ' मोहश्च रणश्च मोहरणौ ' इतरेतरद्वन्द्वः ' । अमतौ-अनभिप्रेतौ मोहरणौअज्ञानसङ्ग्रामौ येषां ते अमतमोहरणाः इति ' बहुव्रीहि:' । “ अस्त्रियां समरानीकरणाः कलहविग्रहौ " इत्यपरः ( श्लो० १६७६ ) । यद्व मतानि साङख्यादीनि चार्वाकादीनि वा तत्र यो मोहः – मूढत्वं स्वदर्शनपक्षपातित्वमिति वा तस्माद् यो रणः - कलहः वाग्वादरूपः । ततो न मतो मोहरणो येषां ते तथा । पुनः कीदृशाः ? । 'यमहारिणः' यमः-कृतान्त: मरजमितियावत् तं हरन्तीत्येवंशीला यमहारिणः । " यमः कृतान्तः पितृदक्षिणाशा ( प्रेतात्पतिः ) " इति हैम: (का०२, ३०९८) । अथवा यम एव हारः - मुक्तास्रक् विद्यते येषां ते यमहारिणः । "शरीर साधनापेक्षं नित्यं यत् कर्म तद् यमः" इत्यमरः ( श्लो०१४४९ ) अथवा यमा:- अहिंसादयः, “अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः" इति (अभि०का० १, श्लो० ८१) वचनात् । तैः यमैः हारिणो-मनोहराः यमहारिणः- एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते न्याय्यमेव तथापि || २ ||
४५
सौ० वृ० - जिनवरा इति । हे जिनवराः ! यूयं मम तमोहरणाय - अज्ञानापनोदनाय प्रयतध्वं इत्यन्वयः । प्रयतध्वम्' इति क्रियापदम् । के कर्तारः । यूयम् : ' प्रयतध्वं' प्रकर्षेण यत्नं प्रयत्नं
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org