________________
स्तुतिचतुर्विशतिका
[श्रीअभिनन्दन
परमः-प्रकृष्टः अदरो-निर्भयः विशेषणद्वयम् । 'स्मरकरीन्द्रविदारणकेसरिन्!' इति । स्मरः-कामः स एव करीन्द्रःचतुर्दन्तः तस्य विदारणे-विस्फोटने केसरीब केसरी तस्यामन्त्रणम् 'सुरव!' इति । मुष्ठु-शोभनो जगदाल्हादका रित्वात् रवो-देशनावनिः यस्य स तस्यामन्त्रणम् । भगवतः सम्बोधनपदद्वयम् ॥ इति प्रथमवृत्तार्थः ॥१॥
समयजिनेश्वराणामभ्यर्थना
जिनवराः ! प्रयतध्वमितामया
मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ २॥
द्रुत ज० वि०-जिनवरा इति । हे जिनवराः ! जिनाः-सामान्यकेवलिनः तेषु वरा:मुख्यास्तीर्थकरास्तत्सम्बो. हे जिनवराः! भुवि-पृथिव्याम् यूयं मम तमोहरणाय तमः-पापं अज्ञानं वा तस्य हरणं-अपहारस्तस्मै प्रयतध्वं-प्रयत्नं कुरुध्वम् । कस्याम् ? 'भुवि । पृथिव्याम् । इदं पदं अग्रे वक्ष्यमाणया प्रदधत इत्यनयापि क्रियया योजयितुं युक्तमेवति क्रियाकारकान्वयः । तत्र 'प्रयतध्वम् । इति क्रियापदम् । के कर्तारः ? 'यूयम् ।। कस्मै ? 'तमोहरणाय । कस्य ? 'मम' | जिनवराः किं कुर्वन्तः ? ' प्रदधतः' धारयतः धारयन्तो बा। का कर्मतापन्नाम् ? 'विश्वननीनताम् । विश्वे-सर्वे जना-लोकाः विश्वजनानां हितो-विश्वजनीनस्तस्य भावो विश्वजनीनता ताम् । जिनवराः कथंभूताः ? ' इतामयाः' इता-गता आमया-गेगा येभ्यस्ते तथा । पुनः कथंभूना: ? ' महारिणः' महान्ति - महत्पमाणानि अरीणिचक्राणि धर्मचक्राणि येषां ते तथा । पुनः कथं ? ' अमतमोहरणाः' अमतौ-अनभिप्रेती मोहरणो-अज्ञानसंग्रामौ येषां ते तथा । अथवा मतानि-सांख्यादीनि तत्र यो मोहो-मूढत्वं तस्मात् यो रण:-कलहो वादलक्षणः ततो न मतो मोहरणो येषां ते तथा । पुनः कथं०? 'यमहारिणः' यमः-कृतान्तः मरणमितियावत् तं हरन्तीत्येवंशीला यमहारिणः । अथवा यमाअहिंसादयः। " अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः ” इत्यभिधानचिन्तामणिवचनात (का० १ श्लो०८१)। तैः हारिणः-मनोहराः । एतानि सर्वाण्यापि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते तथापि न्याय्यमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org