________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
४३
F
पाटनं द्वैधीकरणमितियावत् तत्र केसरीव केसरी - सिंहः तस्य सं० हे स्मर० केसरिन् । । उपमितं व्याघ्रा [ दिभिः सामान्याप्रयोगे ] ' ( पा० अ० २, पा० १ सू० ९६ ) इति समासः । हे 'सुख' ! सुष्ठु - शोभनो रवो- देशनाध्वनिः यस्य स तथा तस्य सम्बोधनं हेसुर ! ॥ १ ॥
'
}
सौ० वृ० -त्यमशुभेति । यः सकलसुखकृद भवति स जिनः सर्वजनाभिनन्दनो भवति । अनेन सम्बन्धेन आयातस्य श्रीअभिनन्दनजिनस्य स्तुतिव्याख्यानं प्रारभ्यते । हे 'अभिनन्दन ! जगदानन्दकारक ! | स्मरः कामः स एव करीन्द्रः- हस्ती तस्य विदारणं भेदनं तत्र केसरी सिंह इव सिंहः तस्य सम्बोधनं हे ' स्मरकरीन्द्रविदारणकेसरिन् ' 1। सुष्ठु शोभनो रवः- शब्दो यस्य स पञ्चत्रिंशद्वाग्गुणयुक्तत्वात् तस्य सं० ' सुरव' ! | त्वं नः अस्माकं अशुभानि - अपुण्यानि धूनय-अवधूनय इत्यन्वयः । 'धूनय' इति क्रियापदम् । कः कर्ता ? ' त्वं भवान् । धूनय स्फेटय- कम्पय । कानि कर्मतापनानि ? | 'अशुभानि ' शुभेतराणि । केदाम्? | 'नः अस्माकम् । किंविशिष्टः त्वम्? । नन्दिता आनन्दिता असवः - प्राणा येन स ' नन्दितासुः ' । धर्मधर्मिणोरभेदापचारात् असुशब्देन प्राणिन एव उच्यन्ते । पुनः किंविशिष्टः त्वम् ? । न स्तः वधूषु नयने-लोचने यस्य सः ' अवधूनयनः | यद्वा नन्दितानिआनन्दितानि असुरवधूनां देवत्रीणां नयनानि येन स ' नन्दितासुरवधूनयनः । पुनः किंविशिष्टः त्वम् ? | परेभ्यः - अन्यभ्यः मोदं हर्ष राति ददाति इति 'परमोदरः । पचादित्वादप्रत्ययः । पुनः किंविशिष्टः त्वम् ? | 'परमः ' प्रकृधुः - प्रधानः । पुनः किं० त्वम् । 'अदः ' निर्भयः । यद्वा परमं-प्रष्टं उदरं - जठरं सकलप्रवचनोद्भूतवाक्याधारत्वात् यस्य सः । इति पदार्थः !!
,
अथ समासः - अभि-सामस्त्येन सर्वप्रकारेण नन्दयतीति अभिनन्दनः, तस्य सं० हे अभिनन्दनः । नन्दिता असवः प्राणिनो येन स नन्दितासुः । नास्ति वधुषु नयनं यस्य सः अवधूनयनः । यद्वा एकत्र विशेषणे असुराणां वध्वः असुरवध्वः, असुरवधूनां नयनानि असुरवधूनयनानि नन्दितानि असुरवधूनयनानि येन स नन्दितासुरवधूनयनः । परैः- यागिभिः मीयते- ज्ञायते इति परमः । यद्वा परान शत्रून रागद्वेषादीन् मीनाति - हिनस्तीति परमः । अथवा परा प्रकृष्टा मा लक्ष्मीः यस्य स परमः । न विद्यते दरो भयं यस्य सः अदरः । यद्वा एकत्र विशेषणे परमं उदरं यस्य स परमोदरः । करः एषां अस्तीति करिणः, करिणां इन्द्रः करीन्द्रः स्मर एवं करीन्द्रः स्मरकरीन्द्रः, स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रविदारणं, स्मरकरीन्द्रविदारणे केसरीव केसरी स्मरकरीन्द्रविदारणकेसरी, तस्य सं० हे स्मरकरीन्द्रविदारण के सरिन् । सुष्ठु रवो यस्य स सुरवः, तस्य सं० हे सुरव! | परेभ्यो म. दं राति ददाति इति परमादरः । द्रुतविलम्बितच्छन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
दे० व्या० त्वमशुभेति । हे अभिनन्दन ! त्वं नः - अस्माकं अशुभानि पापानि धूनय - विनाशय इत्यवय : ' धूञ् कम्पने' धातुः । ' धूनय ' इति क्रियापदम् । कः कर्ता ? । त्वम् । कानि कर्मतापन्नानि ? । अशुभानि । “ कर्णिका स्यादथाशुभम् " इत्यभिधानचिन्तामणिः (का० ६, श्लो० १६) । केषाम् ? । नः । किंविशिष्टस्त्वम् ? ।' नन्दितासुः नन्दिताः -आनन्दं प्रापिताः असवः प्राणिनो येन स तथा । धर्मधर्मिणोः कथचिदभेदादशब्देन अमुमन्त एवोच्यन्ते । पुनः किंविशिष्टः ? । अवधूनयनः वधूषु-दारासु न विद्येते नयनेलोचने यस्य स तथा । प्रत्याहारत्वेन तत्संभवात् । "दाराः क्षेत्रं वधूर्भार्या ' इत्यभिधानचिन्तामणिः (का० ३, श्लो०१७७ । यद्वा नन्दितानि आनन्दं प्रापित नि असुरबधून -दानवखीणां नयमानि येन स तथेत्यकमेव पदम् । पुनः किंविशिष्टः ? । 'परमोदरः' परेभ्यो मोदं हर्ष राति ददाति 'क्वचित्' (सि० अ०५, पा० १,०१७१) इति उप्रत्यये परमोदरः । यद्वा परमं परमगभीरखेन प्रकृष्टं उदरं यस्य स तथेत्यर्थः । पुनः किंविशिष्टः ? 'परमोदरः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org