________________
४२
स्तुतिचतुर्विशतिका
[श्रीअभिनन्दन येन स नन्दिता० 'बहुव्रीहिः ।। पृथग् विशेषणपक्षे त्वेवम्-नन्दिता असवो येन स नन्दितासुः 'बहुव्रीहिः । वधूषु नयने यस्य स वधूनयनः 'बहुव्रीहिः ।। न वधूनयनोऽवधूनयनः ' तत्पुरुषः' । मोदं रातीति मोदरः ' तत्पुरुषः' । परेभ्यो मोदरः परमोदरः 'तत्पुरुषः । । फरिणामिन्द्रः करीन्द्रः 'तत्पुरुषः' । स्मर एव करीन्द्रः स्मरकरीन्द्रः । स्मरश्वासौ करीन्द्रश्च स्मरकरीन्द्र इति वा । उभयथाऽपि 'कर्मधारयः । स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रवि० ' तत्पुरुषः'। स्मरकरीन्द्रविदारणे केसरी स्मरकरीन्द्रविदारणके० 'तत्पुरुषः । तत्सम्बो० हे स्मरक० । शोभनो रखो यस्य स सुरवः 'बहुव्रीहिः ।। न विद्यते दरो यस्य सोऽदरः ‘बहुव्रीहिः । एकविशेषणपक्षे स्वेवम् -परमं उदरं यस्य स परमोदरः ‘बहुव्रीहिः । ॥ इति काव्यार्थः ॥ १ ॥
सि० वृ०-त्वमशुमेति । हे अभिनन्दन ! । अमिनन्द्यते-स्तूयते देवेन्द्रायः इत्यभिनन्दनः । मन्यादेर्युः । योश्चानादेशः । तम्य सम्बोधनं हे अभिनन्दन ! । इत्यत्र · हैहयोः स्वरे सन्धिर्न वक्तव्यः' (सा० सू० ७०)। अभिनन्दननामजिन ! त्वं न:-अस्माकं अशुभानि-असुकृतानि पापानि इतियावत् धूनय-कम्पय लक्षणया दूरीकुरुष्वेत्यर्थः । ण्यन्त 'धून कम्पने' धातोः ‘आशीःप्रेरणयोः । (सा० सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । धूञ् अग्रे हिः 'चुरादेः' (सा० सू० १०३१) इति निः। 'प्रीधूनोनुक् ' (सा०सू० १०५५), हि जाते सति 'अप् कर्तरि' (सा० सू० ६९१), 'गुणः' (सा० सू० ६९२), ए अय' (सा० स० ४ १) 'अत:' ( सा० सू० ७०५) इति हेलुक्, 'स्वरहीनं.' ( सा० स० ३६ )। तथाच 'धूनय' इति सिद्धम् । अत्र 'धूनय' इति क्रियापदम् । कः कर्ता ? । त्वम् । कानि कर्मतापन्नानि ? । अशुभानि । केषाम् ! | नः । अस्मच्छब्दस्य षष्ठीबहुवचने अस्माकमित्यस्य नसादेशः । कथंभूतस्त्वम् ! । ' नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा । यद्वा नन्दितासुः अवधूनयनश्चति पृथगेव द्वे विशेषणे। ततश्चायमर्थःनन्दिताः असवः-प्राणिनो येन स तथा । यद्यपि असुशब्देन प्राणा एवोच्यन्ते आनन्दस्य चात्मधर्मत्वात् तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते इत्युपपन्नमेवैतत् । तथा न विद्यते वधुषु-स्त्रीषु विषयेषु नयने यस्य स तथा । ब्रह्मचारित्वेन स्त्रीणां निभालने पराङ्मुखत्वादिति भावः । पुनः कथंभूतः ।। ' परमोदरः ' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोद-हर्ष राति-ददातीति परमोदरः । 'क्वचित्' (सि०अ०५,पा०१,सू०१७१) इति डः । पुनः कथम्भूत.? परमः- उत्कृष्टः पुनः कथम्भूतः ? । 'अदरः' नास्ति दरः-भयं यस्माद् यस्य वा सः अदरः । “दरोऽस्त्रियां भये श्वभ्रे" इत्यमरः (श्लो० २७०४ )। यद्वा परमोदर इत्येकमेवेदं विशेषणम् । तथा चायमर्थः-परम-उत्कृष्टं महदितियावत् उदरं-कुक्षिर्यस्य स तथा । भूयसां परमर्मभिदां-- रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकाशनाद् गम्भीर इति हार्दम् । अवशिष्टे द्वे सम्बोधने । तयोश्चायमर्थः-हे • स्मरकरीन्द्रविदारणकेसरिन् । ! स्मर:-कामः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्रः तस्य यद् विदारणं
१ पचिनन्दिग्रहादेरयुणिनि ( सा० सू. ११९९) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org