________________
४ श्रीअभिनन्दनजिनस्तुतयः अथ अभिनन्दनस्य प्रार्थना
त्वमशुभान्यभिनन्दन ! नन्दिता
ऽसुरवधूनयनः परमोदरः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः ॥ १॥
-द्रुतविलम्बितम् ज०वि०-त्वमशुभेति। हे अभिनन्दन !- अभिनन्दननामन् ! त्वं-भवान् नः-अस्माकं अशुभानि-असुकृतानि पापानीतियावत् धूनय-कम्पय, लक्षणया दूरीकुरुष्वेत्यर्थः, इति क्रियाकारकप्रयोगः । अत्र 'धूनय' इति क्रियापदम् । कः कर्ता ? ' त्वम् । । कानि कर्मापन्नानि ? 'अशुभानि।। केषाम् ? 'नः' । त्वं कथंभूतः ? ' नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूना-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा । यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे । तयोश्चायमर्थः-नन्दिता असवो येन स तथा । अत्र यद्यपि असुशब्देन प्राणा एव प्रतिपाद्यन्ते, आनन्दस्य त्वात्मधर्मत्वेन तेष्वसम्भवः, तथापि धर्मर्मिणोः कथंचिदभेदप्रतिपादनात् असुशब्देनासुमन्तोऽप्युच्यन्ते इत्युपपन्नमेवेदम् । तथा न विद्येते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा । ब्रह्मचारित्वेन स्त्रीणां निभालने परामखत्वात् । पुनः कथंभूतः ? 'परमोदरः । परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्ष राति-ददाति इति परमोदरः। पुनः कथं० ? 'परमः ' उत्कृष्टः । पुनः कथं० ? ' अदरः। न विद्यते दरो-भयं यस्य यस्माद् वा स तथा । यद्वा परमोदर इत्येकमेवेदं विशेषणम् । तथा चायमर्थः-परमं-उत्कृष्टं महदितियावत् उदरं-कुक्षिर्यस्य स तथा । भूयसां परमर्मभिदां रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकटनाद् गम्भीर इति भावार्थः । अवशिष्टे च द्वे सम्बोधने तयोश्चायमर्थ:-हे 'स्मरकरीन्द्रविदारणकेसरिन् । ! स्मरः-कन्दपः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्र तस्य यद् विदारणं-छेदनं तत्र केसरीव-सिंह इव केसरी तत्सम्बोधनं हे स्मर० । हे 'सुरव !" सुप्तु रवः-शब्दो यस्य स तथा तत्सम्बो० हे सुरव ! ॥
अथ समासः-न शुभानि अशुभानि ' तत्पुरुषः' । असुराणां वध्वः असुरवध्वः 'तत्पुरुषः । असुरवधूनां नयनानि असुर० ' तत्पुरुषः । । नन्दितानि असुरवधूनयनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org