________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका तां कज० । सह मानेन वर्तते यत् तत् समानम् ' तत्पुरुषः ।।न समानं असमानम् ' तत्पुरुषः'। यद्वा न विद्यते समानं यस्य तत् असमानम् बहुव्रीहिः' । न विद्यते अवमं येषां तेऽनवमाः 'बहुव्रीहिः । अनवमानां हिता अनव० ' तत्पुरुषः । तां अनव० । यद्वा आनश्च मानश्च आनमानौ ' इतरेतरद्वन्द्वः । असमौ आनमानौ येषां ते असमानमानाः 'बहुव्रीहिः । असमानमानाश्च ते मानवाश्च असमा० 'कर्मधारयः' । असमानमानमानवैर्महिता असमा० 'त-पुरुषः' । ता असमा० ॥ इति काव्यार्थः ॥ ४॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीशम्भवजिनस्तुतिवृत्तिः॥३॥ सि० वृ० - शृङ्खलभृदिति । भो भव्य ! प्राणिन् ! त्वं तां श्रीवज्रश्रृङ्खलां-वज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, असमान-अनन्यसदृशं यथा स्यात् तथा आनम-प्रणामं कुरु इत्यर्थः । आङपूर्वक ' णम प्रह्वीभावे । धातो: ' आशी:प्रेरणयोः' (सा. सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । हिः। अप कर्तरि ' ( सा० सू० ६९१) अम् । ' आदेः प्णः स्नः' ( सा. सू० ७४८ ) इति णकारस्य नकारः । ' अत: ' ( सा० सू० ७०५ ) इति हेलक् । तथाच आनम ' इति सिद्धम् । लोट् इति संज्ञा पाणिनीयानाम् त्रयोदशस्वरमध्यः । (अत्र 'आनम' इति क्रियापदम् । कः कर्ता ? । त्वम् । कां कर्मतापन्नाम्? श्रीवज्रशृङ्खलाम् । कथम् ? । असमानाम् । तामिति तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह-या वज्रशृङ्खला शृङ्खरभृत्-शृङ्खलं विभीति शृङ्खलभृत्, कनकनिमा-कनकस्य-सुवर्णस्येव निमा-सादृश्यं यस्याः सा तथा । कान्तिकमनीयत्वसाम्यात् । “ कल्याणं कनकं महारजतरैगांगेयरुक्माण्यपि " इति हैमः ( का० ४, ल० १०९ )। अत्र वाक्ये अस्तीति क्रियाऽध्याहियते ।
" अह्ना विना न सूर्यः, पूर्यविहीनश्च वासरो नास्ति ।
कर्तक्रिगे तथैव हि, संपृक्ते सर्वदा भवतः" ॥-आर्या इतिवचनात् । ततश्च · अस्ति । इति क्रियापदम् । का की ? । या । कथंभूता ? । शृङ्खलभूत् । पुनः कथंभूता ? । कनकनिभा । तां वज्रशृङ्खलां कथंभूताम् ? । ' असमानमानमानवमहिताम् । असमान:--असाधारणो मानः पूजा बाधो वा येषां ते असमानमानाः, तादृशैः मानवैः-मनुष्यैः तेषामुपलक्षणत्वादन्यैदेवादिमिरणि महिता-पूजिता ताम् । यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहकारौ येषां ते तथोक्ताः, तादृशैः मानवैः माहिता-पूजिताम् । आस्तां तावदन्ये प्राणाहकारवर्जिता नराः बहुप्रणाहङ्कारवद्भिरपि मानवैः पूजितामित्यर्थः । पुनः कथंभूताम् ? । 'कजयातां' कनं-कमलं तत्र यातां-प्राप्तां, पङ्कजस्थितामित्यर्थः । पुनः कथंभूताम् ? । 'अनवमहिताम्' अवमं-पापं न विद्यते येषां ते अनवमाः-अनघाः तेभ्यो हिता-हितकारिणीम् । " अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् " इति हैमः ( का० ६, श्लो० ७८)। स्कन्धकं छन्दः ॥ ४ ॥
॥ इति शम्भवजिनस्तुतिवृत्तिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org