________________
[३श्रीशम्भय
स्तुतिचतुर्विंशतिका वज्रगृङ्खलायै प्रणामः
शृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् ।
श्रीवजशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ ४ ॥ ३ ॥
ज वि०-शङ्कलभृदिति । भो भव्य!-प्राणिन् ! त्वं तां श्रीवजशङ्खला-श्रीवज्रशृङ्खल भिधा देवता, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, आनम-प्रणम प्रणामं कुरुष्वेत्यर्थः । कथम् ? ' असमानं ' असाहङ्कारं यथा स्यात् तथा । अथवा असमानअनन्यसदृशं यथा स्यात्तथेति क्रियाविशेषणम् । अत्र ‘आनम' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । कां कर्मतापन्नाम् ? ' श्रीवनशृङ्खलाम्' । कथम् ? ' असमानम् । । तामिति तच्छब्दसाचिव्याद् यच्छब्दघटनामाह-या वज्रशृङ्खला । ' शृङ्खलभृत् ' शृङ्खलं बिभर्तीति शृङ्खलभृत् । 'कनकनिभा' कनकस्य-सुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा । कान्तिकमनीयत्वसाम्यात् । अत्र वाक्येऽस्तीति क्रियाऽध्याहियते ।।
" अह्ना विना न सूर्यः, सूर्यविहीनश्च वासरो नास्ति ।
कर्तक्रिये तथैव हि, सम्पृक्ते सर्वदा भवतः॥"-आर्या इतिवचनात् । ततश्च · अस्ति । इति क्रियापदम् । का कर्ती ? 'या'। कथंभूता ? 'शङ्कलभृत्' । पुनः कथंभूता ? 'कनकनिभा'। तां वज्रशृङ्खलां कथंभूताम् ? ' असमानमानमानवमहिताम्' असमान:-असाधारणो मानः-पूजा बोधो वा येषां ते तथा, तादृशैर्मानवैः-नरैः, तेषां उपलक्षणत्वादन्यैर्देवादिभिरपि महिता-पूजिताम् । पुनः कथंभूताम् ? 'कजयाताम् ' कर्ज-कमलं तत्र याता-प्राप्ताम् । पङ्कजाधिरूढामित्यर्थः । पुनः कथंभूताम् ? ' अनवमहिताम् ' अवमं-पापं न विद्यते येषां तेऽनवमास्तेभ्यो हितां-हितकारिणीम् । यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारी येषां ते तथा तादृशैर्मानवैर्महिता-पूजिताम् । आस्तां तावदन्ये प्राणाहङ्कारवर्जिता नराः, बहुपाणाहङ्कारवद्भिरपि महितामित्यर्थः ॥
अथ समास:-शृङ्खलं बिभर्तीति शृङ्खलभृत् ' तत्पुरुषः' । कनकस्येव निभा यस्याः सा कन० 'बहुव्रीहिः' । न विद्यते समानं यस्य सोऽसमानः 'बहुव्रीहिः ।। असमानं मानं येषां ते असमा० 'बहुव्रीहिः' । असमानमानाश्च ते मानवाश्च असमा० कर्मधारयः' । अस. मानमानमानवैर्महिता असमा० ' तत्पुरुषः' । तां असमा०। कजे याता कजयाता ' तत्पुरुषः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org