________________
३७
जिनस्तुतयः]
स्तुतिचतुर्विशतिका इति विश्वः । पुनः कीदृशम् ? । यतमानम्-यत्नं कुर्वाणम् । कीदृश्या जिनराज्या ! । असमानन यानया ' आननं--मुखं यानं-गमनं, आननं च यानं च आननयाने 'इतरेतरद्वन्द्वः ' ततः असमे आननयाने यस्याः सा तथा तया असमाननयानया इति — बहुप्रीहिः ' । पुनः कथंभूतया ? । ' भयानया' यानं-वाहनं तन्न विद्यते यस्याः सा अयाना, तया अयानया । अवाहनत्वं चास्याः सर्वपरिग्रहत्यागादचितमेव । " यानं गतौ वाहनेऽपि " इति विश्वः॥ ३ ॥
सो० वृ०--जिनराज्येति । जिनराज्या-जिनश्रेण्या रचितं-अर्थापगतं मतं-प्रवचनं नः-अस्माकं शिवशर्मण-मोक्षसुखाय स्तात इत्यन्वयः । ‘स्तात् ' इति क्रियापदम् । किं कर्तृ ? । मतम् । 'स्तात् ' भूयात् । कस्मै ? । शिवशर्मण । केषाम् ?! 'नः' अस्माकम् । कथंभूतं मतम् । रचितम् । कया ?। जिनराज्या। किंविशिष्टया जिनराज्या ? । असमाने-निरुपमे आननं-मुखं यानं-गमनं मोक्षप्राप्तिलक्षणं
त्याः सा असमाननयाना, तया 'असमाननयानया' । पुनः किविशिष्ट मतम् । आयतः-विस्ताणे: मानः-प्रमाणः पूजाविधिर्वा यत्र तत् 'आयतमानम् ' । मतं किं कुर्वत् ? । 'दधत् । धारयत् । कान् कर्मतापन्नान् ? । असमानाः-असहशाः अतिगहनत्वात् नया-नैगमाद्याः द्रव्यास्तिकपर्यायास्तिकभेदाः, तान् ‘असमाननयान्'। किंविशिष्टया जिनराज्या ? । 'अयानया' अवाहनया । मतं किं कुर्वाणम् ? । 'यतमानं यत्नं कुर्वाणम् । नः इत्यत्र विसर्जनीयस्य ‘स्वरे (परे) यत्वं वा ' ( सा० सू०११२) इत्यनुभूतिः, 'रोर्यः' (सि० अ० १, पा० ३, सू० २६) इति रस्य यः, ‘स्वरे वा' इति हैमः (सि. अ०१, पा०३, सू०२४)। इति पदार्थः । ___ अथ समासः-जिनानां राजिः जिनराजिः, तया जिनराज्या। आननं च यानं च आननयाने, न समाने असमाने, असमाने आननयाने यस्याः सा असमाननयाना, तया असमाननयानया। आयतो मानो यस्मिन् तत् आयतमानम् । शिवस्य शर्म शिवशर्म, तस्मै शिवशर्मणे । दधातीति दधत् । न समानाः असमानाः, असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् । नास्ति यानं यस्याः सा अयाना, तया अयानया । यतते तत् यतमानम् ॥ इति तृतीयवृत्तार्थः ॥३॥
दे० व्या०-जिनराज्यति । मतं-गणिपिटकछक्षणं नः-अस्माकं इत्यध्याहारः, शिवशर्मणे मुक्तिसुखाय स्तात्-भूयादिश्यन्वयः। 'अस् भुवि ' धातुः । 'स्तात् ' इति क्रियापदम्। किं कर्त। मतम् । कस्मै । शिवशर्मणे । शिवस्य शर्म शिवशर्म इति 'षष्ठीतत्पुरुषः' तस्मै। केषाम् । नः । किंविशिष्टं मतम् ।'आयतमानम् । आयतो-विपुलो मानः-पूजा परिमाणं वा यस्य तत् । पुनः किंविशिष्टम् ।। यतमानं-प्रयत्नं कुर्वाणम् । पुनः किंविशिष्टम् ? । रचितं-प्रथितम् । कया? | 'जिनराज्याजिनाना-तीर्थकराणां राजि:-श्रेण: तया अर्थतस्तद्भाषितत्वात्। किंविशिष्टया जिनराज्या?। असमाननयानया' आननं-मुखं यानं-गमनं अनयोः पूर्वं 'द्वन्दः, ततः असमे-अनन्यकल्पे आननयाने यस्याः सा तया । किंविशिष्टया? अनया-प्रत्यक्षोपलक्ष्यमाणया। अत्र 'रोर्य:'(सि०अ०१,पा०३, सू०२६) इतिसूत्रेण इकारस्य यकारादेशः। पुन: किंविशिष्टया।
स्ति यानं-वाहनं यस्याः सा तया । पूर्वपदे यानपदन गमनमेव व्याख्येयम् । अन्यथा अनेन सह विरोधः स्यात् । मतं किं कुर्वत् १ । दधत् । कान् ? । 'अममाननयान ' असमाना-अनन्यकल्पा ये नयानेगमादयः नान ।। इति तृतीयवृतार्थः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org