________________
स्तुतिचतुर्विशतिका
[ ३ श्रीशम्भय
योजना । अत्र 'नः' इति पदं अस्मच्छब्दस्य षष्ठी बहुवचनम् । तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानमित्यस्मात्. पदात् 'स्वरे यत्वं वा' (सा०सू० ११२) इतिसूत्रेण कृतं सन्धि विश्लिष्य ज्ञेयम् । तथाऽत्र · स्तात् ' इति क्रियापदम् । किं कते ? 'जिनमतम् । कस्मै ? 'शिवशर्मणे' । केषाम् ? 'नः' । मतं कथंभूतम् ? ' रचितम् ।। कया ? ' जिनराज्या'। मतं किं कुर्वत् ? ' दधत' धार यत् । कान कर्मतापमान ? ' असमाननयान.' असमाना-असाधारणा ये नया-नैगम संग्रहमभृतयः तान् । जिनमतं पुनः कथंभूतम् ? ' आयतमानं ' आयतं--अलधु मान-प्रमाणं यस्य तत् तथा । पुनः कथंभूतम् ? यतमानम् ' यत्नं कुर्वाणम् । जिनराज्या कथंभूतया ? 'असमाननयानया ' आननं-मुखं यानं-गमनं गतिरितियावत्, ते असमे-असाधारणे यस्याः सा तथा तया । पुनः कथंभूतया ? 'अयानया' यानं-वाहनं तत् न विद्यते यस्याः सा तथा तया । अवाहनत्वं चास्याः सर्वपरिग्रहपरित्यागादुचितमेव ॥
अथ समास:-जिनानां राजी जिनराजी ' तत्पुरुषः' । तया जिन० । आननं च यानं च आननयाने 'इतरेतरद्वन्द्वः' । असमे आननयाने यस्याः सा असमा० 'बहुव्रीहिः । तया असमा० । आयतं मानं यस्य तत् आयतमानम् बहुव्रीहिः । शिवस्य शर्म शिवशर्म 'तत्पुरुषः । तस्मै शिव० । असमानाश्च ते नयाच असमा० 'कर्मधारयः' । तान् असमा० । न विद्यते यानं यस्याः सा अयाना 'बहुव्रीहिः' । तया अयानया ॥ इति काल्यार्थः ॥३॥
सि. वृ०-जिनराज्येति । निनानां रानिः जिनरानिः, तया जिनराज्या-जिनपत्या रचितं- प्रणीतं मतं-दर्शनं न:-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात्-भवतु इत्यर्थः । "शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निवृतिः ॥ इति हैमः। ' अस् भुवि । धातोः ‘आशीःप्रेरणयोः । (सा०सू० ७७३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् तुप् । 'तुह्योस्तातडाशिषि वा' (सा०सू० ७०४) इति तुपस्तातङ, 'नमसोऽस्य' (सा०सू० ८९९) इत्यकारलोपः । तथाच ‘स्तात्' इति सिद्धम्। अत्र ' स्तात् ' इति क्रियापदम् । किं कत । जिनमतम् । कस्मै ! । ' शिवशर्मणे ' शिवस्य-मोक्षम्य शर्म शिवशर्म, तस्मै शिवशर्मणे । केषाम् ! । नः । अत्र नः इति पदम् अस्मच्छब्दस्य षष्ठीबहुवचनस्य अस्माकं इत्यस्य विशेषादेशः । तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानं इत्यस्मात् पदात् ' स्वरे यत्वं वा' ( सा० सू० ११२ ) इति सूत्रेण कृतसंधि विश्लिण्य ज्ञेयम् । कीदृशं मतम् ! । रचितम् । कया ! । जिनराज्या । मतं किं कुर्वत् ? । दधत्-धारयत् । कान् ! । 'असमाननयान ' असमाना-असाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् । पुनः कीदृशं जिनमतम् ? । 'आयतमानम्' आयतं--अलघु मान--प्रमाणं पूजा वा यस्य तत् तथा । “ मानं प्रमाणे पूजादौ, मानामिलोमतो गृहे "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org