________________
जेनस्तुतयः ]
स्तुतिचतुर्विंशतिका
३५
"
सौ० वृ० - आश्रयत्विति । हे 'जिनकदम्बक' ! तीर्थकरसमूह । आनमन्तः - प्रणमन्तः ये अमरा--देवाः तैः ' आनमदमरः । हे ' स्तुत' ! हे वन्द्य ! | मारः कामः मानो-दर्पः मदश्च - अष्टविधो जात्याद्यवलेपः मरः-मारी तैः 'मारमानमदमरैः' कृत्वा हे 'रहित' ! त्यक्त ! | हे 'विभय 1 त्यक्तभय ! । परान- परजनान् मारयतीति परमारः, न परमार : अपरमारः, तस्य सं० हे 'अपरमार'! सर्वजीवरक्षक ! इत्यर्थः । रमा-लक्ष्मीः तव प्रणतं तीर्थंकरवन्दनशीलं जनं अरं-अत्यर्थ आश्रयतु इत्यन्वयः । आश्रयतु ' इति क्रियापदम् । का कर्त्री ? । रमा । 'आश्रयतु' आलिङ्गतु । कं कर्मतापनम् ? । 'प्रणतं ' नतं. जनम् । कस्य ? | 'तव ' भवतः । कथम् ? | 'अरं ' अत्यर्थम् । किंविशिष्टा रमा ।' परमा' प्रकृष्टा । कया ? । विशिष्टशोभया कृत्वा । इति पदार्थः ॥
2
अथ समासः - प्रकर्षेण नतः प्रणतः, तं प्रणतम् । विशिष्टा भा-कान्तिः यस्याः सा विभा, तया विभया । परैः - योगिभिः मीयते ज्ञायते इति परमा । आङ् मर्यादया । विधिपूर्वकं नमन्त आनमन्तः, आनमन्तश्च ते अमराश्च आनमदमराः, तैः आनमदमरैः । जिनानां कदम्बकं जिनकदम्बकं, तस्य सं० हे जिनकदम्बक ! । विगतं भयं यस्मात् स विभयः, तस्य सं० हे विभय !। न परान् मारयतीति अपरमारः, तस्य सं० हे अपरमार ! | मारच मानश्च मदश्व मरच मारमानमदमराः, तैः मारमानमदमरैः ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
दे० व्या० आश्रयत्विति । जिनानां तीर्थकराणां कदम्ब एव कदम्बकः - समूहः तस्यामन्त्रणम् हे जिनकदम्बक' ! | रमा - लक्ष्मीः ते तव प्रणतं प्रव्हीभूतं जनमिति शेषः, आश्रयतु-भजतु इत्यन्वयः । ' श्रिञ् सेवायाम्' धातुः । 'आश्रयतु' इति क्रियापदम् । का कर्त्री ? । रमा । "लक्ष्मीः पद्मा रमा" इत्यभिधानचिन्तामणिः (का० २, श्लो० १४० ) । कं कर्मतापन्नम् ? । जनम् । किंविशिष्टं जनम् ? । प्रणतम् । कस्य ? | तव । किंविशिष्टा रमा ? । 'विभया' विगतं भयं तस्याः सा तथा । पुनः किं विशिष्टा ? । परमा सर्वोत्कृष्टा । तयैव सर्वेषामुत्कृष्टत्वेन दर्शनात् । विभया - विशिष्टया रोचिषा परमा-प्रकृष्टेत्यर्थो वा । हे 'स्तुत' ! स्तुतिगोचरीकृत ! | कैः । ' आनमदमरे: ' आ-समन्तात् नमन्तः - प्रणामं कुर्वन्तः ये अमराः- देवाः तैः । कथम् ? | अरं - अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् । हे 'रहित'! हे विमुक्त ! | कैः ? | 'मारमानमदमरैः' मारः कामः, मान:- स्मयः, मदो - मुन्मोहसंभेदः, मरो-मरणं एतेषां द्वन्द्वः तैः । हे 'विभय ! विगतं भयं यस्य, यस्मात् वा स तस्याम त्रणम् । हे 'अपरमार ! परान् शत्रून् मारयतीति परमारः, न परमारः अपरमारः तस्यामन्त्रणम् । " प्रतिपक्षः परो रिपुः ' इत्यभिधानचिन्तामणिः (का० ३, श्लो० ३९२ ) ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
59
जिनमतस्य प्राधान्यम् -
+4
Jain Education International
जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दूधदसमाननयानयानयाँ यतमानम् ॥ ३ ॥
ज० वि० – जिनराज्येति । जिनराज्या - तीर्थकरपङ्कया रचितं कृतं प्रणीतमितियावत् मतं - दर्शनं नः - अस्माकं शिवशर्मणे - मोक्षमुखाय स्तात् - भवत्विति क्रियाकारक
१' नयाऽऽयतमानम्' इत्यपि पाठः । २ ' नयायतमानम्' इत्यपि पाठः ।
- आर्या ०
For Private & Personal Use Only
www.jainelibrary.org