________________
स्तुतिचतुर्विशतिका
[३ श्रीशम्भवज०वि०-आश्रयविति । हे जिनकदम्बक !-जिनसमूह ! तव प्रणतं भवतो विनतं नरं रमा-लक्ष्मीः अर-शीघ्रं आश्रयतु-आ-समन्तात् श्रयतु निजास्पदत्वेनाङ्गीकरोत्विति हृदयम् इति क्रियाकारकसंटङ्कः । अत्र 'आश्रयतु ' इति क्रियापदम् । का की ? 'रमा'। के कर्मतापनम् ? 'प्रणतम् । । कस्य ? ' तव' । कथंभूता रमा ? 'परमा' उत्कृष्टा । कया ? 'विभया' प्रभया दीप्त्येतियावत् । अपराणि सर्वाणि जिनस्य सम्बोधनानि । तेषां व्याख्या वेवम्-ई । स्तुत 'वन्दित । । कैः ? ' आनमदमरैः । आनमन्तः-प्रणमन्तो ये अमरा:देवास्तैः । हे रहित ! त्यक्त!। कैः ? 'मारमानमदमरैः । मारः कन्दर्पः, मान:-अभिमानः, मदः-जात्याद्यष्टविधः, मरी-मारी तैः। हे 'विभय ! विगतभीते !। न परान् प्राणिनो मारयतीति थ तत्सम्बो० हे ' अपरमार' !॥
__अथ समास:-प्रकर्षण नतः प्रणतः 'तत्पुरुषः । विगतं भयं यस्मात् तत् विभयम् 'बहुव्रीहिः । आनमन्तश्च तेऽमराश्च आनम० कर्मधारयः । नै: आनम० । परान् मारय. तीति परमारम् तत्पुरुषः । न परमारं अपरमारम् । तत्सम्बो. हे अपर०मारश्च मानश्च मदश्च मरश्च मार · इतरेतरद्वन्द्वः । तैरि० ॥ इति काव्यार्थः ॥ २॥
सि. व. - आश्रयत्विति । हे 'जिनकदम्बक' ! जिनानां कदम्ब एव-समूह एव कदम्बकः। स्वार्थे कः । तस्य सम्बोधनं हे जिनकदम्बक । । वृन्दं चक्र कदम्बके समुदयः पुोत्करौ संहतिः (का० ६ श्लो० ४१) इत्यभिधानचिन्तामणिः । तव प्रणतं - भवतो विनतं रमा-लक्ष्मीः अरं-शीघ्र आ-समन्तात् आश्रयतु-भजतु । निजास्पदत्वेनाङ्गीकरोत्वित्यर्थः । श्रिङ्ग सेवायाम् ' धातोः कर्तरि · आशी:प्रेरणयोः ' (सा० सू० ७०३) परस्मैपदे प्रथमपुरुषैकवचनम् । तुम् । ' अप कर्तरि ' ( सा० सू० ६९१) इत्यप् । ' गुणः' ( सा० सू० ६९२) इति गुणः । अत्र ' आश्रयतु' इति क्रियापदम् । का की ? । रमा । कं कर्मतापन्नम् ? । प्रणतम् । कस्य ? । तव । युष्मच्छब्दस्य षष्ठयेकवचने “तव मम ङसा" (सासू० ३३७) इति तवादेशः । कीदृशी रमा? परमा--उत्कृष्टा । कया ? । विभया-प्रभया-दीप्त्या इतियावत् । अपराणि सर्वाणि जिनस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे ' स्तुत ' ! स्तुतिविषयीकृत ! । कैः । 'आनमदमरैः । आनमन्तः-प्रण मन्तो ये अमरा-देवाः ते आनमदमराः, तैः आनमदमरैः । हे ' रहित ' ! त्यक्त ! । कैः ।। ' मारमानमदमरैः' मारः-कामः मानः-अभिमानः मदः-मुन्मोहसम्भेदः जात्याधष्टविधो वा मरो-मरणं तैः । मारश्च मानश्च मदश्च मरश्च इति । द्वन्द्वः' । हे विमय ' ! विगतं भयं यस्मात् स विभयः, तस्य सम्बोधनं हे विभय ! | हे ' अपरमार ' ! परान् प्राणिनः शत्रून् वा मारयतीति परमारः, न परमारः अपरमारः, तस्य संबोधनं हे अपरमार ! | " शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यव. स्थाता" इति हैमः (का० ३, श्लो० ३९२) । समशत्रुमित्रत्वादिति भावः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org