________________
३ श्रीशम्भवजिनस्तुतयः
अथ श्रीशम्भवस्याभ्यर्थना
निर्भिन्नशत्रुभवभय !
शं भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्रय !
शम्भव ! कान्तारतारतारममारम् ॥ १ ॥ — आर्यागीतिः
6
,
ज० वि० निर्भिन्नेति । हे शम्भव ! - शम्भवाव्यतीर्थपते ! त्वं मम अरं - श्रीधं शं- सुखं वितर - देहि इति क्रियाकारकयोजना । अत्र ' वितर ' इति क्रियापदम् । कः कर्ता ? 'त्वम् ' । किं कर्मतापन्नम् ? ' शम् । कस्य ? ' मम | कथम् ? ' अरम् ' । शं कथंभूतम् ? 'अरममारम् ' न रमते इत्यरमः, अरमो मारः - कामो यस्मिन् तत् तथा, अविषयद्वारकं अपवर्गसम्बन्धीतियावत् । अपराणि सर्वाणि शम्भवस्वामिनः संम्वोधनानि । तेषां व्याख्या यथा - हे ' निर्मिन्नशत्रु भवभय ! निर्भिन्नं निःशेषेण छिन्नं शत्रुभ्यः- वैरिभ्यो भवं समुत्पन्नं भयं - मीतिर्येन, यद्वा शत्रवो - वैरिणो भवः - संसारो भयं च भीतिर्येन । यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन । शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव । यद्वा निर्भिनं शत्रुभ्यो भवाच सकाशात् भयं येन स तथा । तत्सम्बो० हे निर्भिन्न । हे ' भवकान्तारतार ' ! भवः - संसारः स एव रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं अरण्यं तस्मात तारयति -उद्धरति स तथा । तत्सम्बोधनं हे भव० । हे तारः सकलकालुष्यराहित्येन निर्मलः । तत्सम्बो० हे तार ! | हे ' त्रतजगत्रय ! त्रातं रक्षितं जगत्रयं त्रिभुवनं येन स तथा । तत्सम्बो० हे त्रात | हे 'कान्तारतारत । कान्ता - योषितः तासु रतं - कामक्रीडा तस्मिन् अरत:- अनासक्तः । तत्सम्बो० हे कान्ता० ॥
Jain Education International
अथ समासः -- शत्रुभ्यो भवं शत्रुभवं ' तत्पुरुषः । शत्रुभवं च तद् भयं च शत्रु० 'कर्मधारयः । निर्भिन्नं शत्रु भवं भयं येन 'बहुव्रीहिः' । यद्वा शत्रवश्च भवश्च भयं च शत्रुभवभयानि ' इतरेतरद्वन्द्वः' । निर्भिन्नानि शत्रुभवभयानि येन । यद्वा शत्रुश्चासौ भवश्च शत्रुभवः ' कर्मधारयः' | शत्रुभवस्य भयं शत्रुभ० ' तत्पुरुषः ' । निर्भिन्नं शत्रुभवभयं येन । यद्वा शत्रवध भवाश्च शत्रुभवाः ' इतरेतरद्वन्द्वः ' । शत्रुभवेभ्यो भयं शत्रु० ' तत्पुरुषः ' । निर्भिन्नं शत्रुभवभयं येन स तथा । पक्षचतुष्टयेऽपि ' कर्मधारयः ' एव । तत्सम्बो० हे निर्मि० । हे भवकान्तारतार |
१ 'आर्योपगीतिजात्या च्छन्द:' इति श्रीसौभाग्यसागराः, 'स्कन्धकं' इति तु श्रीसिद्धिचन्द्रगणयः ।
For Private & Personal Use Only
www.jainelibrary.org