________________
.
स्तुतिचतुर्विशतिका
[२ श्रीअजित
भा-कान्तिर्यस्याः सा 'इरम्मदभा' । पुनः किंविशिष्टा मानसी ?। मदेन-दर्पण भासुराः-दीप्ता ये देवाः तैः अजिता-अनभिभूता 'मदभासुराजिता'। मानसी किं कुर्वती ?। 'वधती' धारयन्ती। के कर्मतापन्नम् ! । 'पर्वि' वज्रम् । किंविशिष्टं पविम् ? । आत्ता-गृहीता ततिः-विस्तारो येन स आत्तततिः तं 'आत्तततिम्' । पुनः किंविशिष्टं पविम् ? । सुष्ठ-शोभनं यथा स्यात् तथा राजिताः-भ्राजिताः आशा-दिशो येन स सुराजिताशः तं 'सुराजिताशम् ।। पुनः किं० पविम् ? । क्षतं गतं उद्यत्-उद्गच्छत् ततं-विस्तीर्ण तिमिरंध्वान्त-तमो येन सक्षतांद्यत्ततांतांमरः ते 'क्षताणतामरम्'।"मघवन्हिरिरम्मदः" इति हैमः (का०४, श्लो० १६७ ) । “शं सुखे बलवत सुष्टु" इति हैमः ( का० ६, श्लो० १७१ ) ॥ इति पदार्थः ॥
___ अथ समासः-सितश्चासौ शकुनिश्च सितशकुनिः, सितशकुनौ गता सितशकुनिगता । आत्ता ततिर्येन स आत्तततिः, तं आत्तततिम् । इरम्मदवद् भा यस्याः सा इरम्मदभा । सुष्टु राजिता आशा-दिशो येन स सुगजिताशः, तं सुराजिताशम् । ततं च तत् तिमिरं च तततिमिरं, उद्यत् च तत् तततिमिरं च उद्यत्तततिमिरं, क्षतं उद्यत्तततिमिरं येन स क्षतोद्यत्तततिमिरः, तं क्षतोद्यत्तततिमिरम् । मदेन भासुराः मदभासुरा, न जिता अजिता, मदभासुरैः अजिता मदभासुराजिता। यमकालङ्कारः॥ इति चतुर्थवृत्तार्थः ॥४॥
वैजयेजजिनेशस्य, स्तुतेरर्थो लिवीकृतः । सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना॥
॥ इति अजितजिनस्तुतिः॥२॥ देवव्या०-मितशकुनीति।मानसी देवी शं-मुखं आशु-शीघ्रं यथा स्यात् तथा वितरतु-ददातु इत्यन्वयः। 'त प्लवनतरणयोः' इति धातुः। 'वितरतु' इति क्रियापदम् । का कत्रीं । मानसी । किं कर्मतापन्नम् । शम् । किंविशिष्टा मानसी । 'सितशकुनिगता सित-शुक्लो यः शकुनि:-पतत्री तस्मिन् गता-आरूढा " श्वेत: श्येतः सितः शको" इत्यभिधानचिन्तामणिः (का०६, श्लो० २८)। पुनः किंविशिष्टा? । इद्धा-दीप्ता । पुनः कि!'इरम्मदभा' इरम्मदा-मघवान्हेंः तद्वद् भा-कान्तियंस्याः सा तथा। "मेघवन्हिरिरम्मद भिधानचिन्तामणिः (का०४, श्लो० १६७) । पुनः किंविशिष्टा ? । 'मदभामुरा 'मदो-मुन्मोहसंभेदस्तेन भासुरा-शोभमाना । “मदो मुन्मोहसम्भेदो" इत्यभिधानचिन्तामणिः (का० २, श्लो० २२६) । पुनः किंविशिष्टा ? 'अजिता' अपराजिता न जिता अजिता इति 'न समासः अन्यैरिति शेषः। यद्वा मदेन भासुरा ये ते तथा तैः अजिता-अनभिभूतेत्येकमेव पदम् । एतेन शौर्यातिशयः सूचितः । मानसी किं कुर्वती । दधती । कम् ? । पविं-वज्रम् । हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः” इत्यमरः (श्लो०९३) । पुनः किंविशिष्टं पविम् ?। आत्तततिम् ' आत्ता-गृहीता ततिः-विस्तारो येन स तेम् । पुनः किंविशिष्टम् ? । 'सुराजिताशम् ' सुष्टु राजिताःशोभिता आशा-दिशो येन स तम् । पुनः किंविशिष्टम् ? । 'क्षतोयत्नततिमिरम् ' क्षतं-ध्वस्तं उद्यत्-उद्गच्छत् ततं-विस्तृतं तिमिरं-ध्वान्तं येन स तम् ॥ इति चतुर्थवृत्तार्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org