________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
र
नयाः 'इतरेतरद्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततं-विस्तीर्णं, तस्य सम्बोधनं हे गमनययोगतत!। " गमः सदृशपाठे स्याद् , गमस्तु गमने स्मृतः" इति नानार्थः। हे ' विततापवर्गवीथीगमनययो' वितता-विस्तृता या अपवर्गवीथी अपवर्गस्य-मोक्षस्य वीथी-वर्त्म तत्र गमनं-यानं तत्र ययुरिव ययुः-अश्वः, तस्य सं० हे विततापवर्ग । “ ययुरश्वोऽश्वमेधीयः" इति हैमः ( का० ४, श्लो० ३०९)। यथा ययुना स्वस्वामी समीहितं पदं नीयते तथा जिनागमेनापि स श्रद्धाध्ययनाध्यापनश्रवणासक्तो जनो मोक्ष प्राप्यत इति भावः । " वीथी वर्मनि पंक्तौ च, गृहाङ्गे नाट्यरूपके " इति हैमा. नेकार्थः ॥ ३ ॥
सौ० वृक्ष-प्रवितरति । 'हे त्रिलोकवन्धो ':-हे जगभ्रातः ! । गमा:-सदृशपाठा:-सिद्धान्तालापकाःनया नैगमादयः तेषां योगाः-सम्बन्धाः तैः तत-विस्तार्ण हैगमनययोगतत ! है जिनमत''जिनप्रवचन!। विततो-विस्तीर्णः अपवर्गो-मोक्षः तस्य वीथी-मार्गः तत्र गमनं-प्रापणं तत्र ययुरिव ययुः-अश्वमेधीयः-तुरगः शीघ्रतापकत्वात् हे विततापवर्गवीथीगमनययो । गततान्ति-गतकम यथा स्यात् तथा मेमद्य त्वं अन्तिमे पदे-मोक्षे लोकाग्रे वसति-वासं प्रवितरेति अन्वयः । 'प्रवितर' इति क्रियापदम् । कः कर्ता ? । त्वम् । 'प्रवितर' प्रकर्षेण दद । कां कर्मतापन्नाम् ? । 'वसतिं' स्थानम् । कस्मिन् । 'अन्तिमे पदे ' मोक्षस्थाने । कस्मै ? । 'मे' मह्यम् । कथंभूते अन्तिमे पदे !! 'अपदेहे ' गतशरीर ॥ इति पदार्थः॥
अथ समासः-त्रयाणां लोकानां समाहारस्त्रिलोकं, त्रिलोकस्य बन्धुः त्रिलोकबन्धुः, तस्य सं० हे त्रिलोकबन्धो ! । गमाश्च नयाश्च गमनयाः, गमनयानां योगाः गमनययोगाः, गमनययोगैः ततं गमनययोगततं, तस्य सं० हे गमनययोगतत ! । अन्ते भवः अन्तिमः, तस्मिन् अन्तिमे। जिनानां मतं जिनमतं, तस्य सं० हे जिनमत ! । अपवर्गस्य वीथी अपवर्गवीथी, वितता चासो अपवर्गवीथी च विततापवर्गवीथी, विततापवर्गवीथ्यां गमनं विततापवर्गवीथीगमनं, विततापवर्गवीर्थागमने ययुरिव ययुः विततापर्गवीथीगमनययुः, तस्य सं० हे विततापवर्गवीथीगमनययो ! । गता तान्तिर्यस्मात् तत् गततान्ति यथा स्यात् तथा। अपगता देहाः कार्मणादयो यस्मिन् तत् अपदेह, तस्मिन् अपदेहे । “ययुरश्वोऽश्व मेधीयः” इति हैमः ( का०४, श्लो० ३०१ ) ॥ इति तृतीयवृत्तार्थः ॥ ३ ॥
दे० व्या०--प्रवितरेति । हे जिनमत ! त्वं मे-मम अन्तिमे-सर्वोत्कृष्ट पदे-स्थाने वसति-निवासं प्रवितर-प्रकर्षण देहीत्यन्वयः । तृ पवनतरणयोः' इति धातुः। 'प्रवितर' इति क्रियापदम् । कः कर्ता? त्वम् । कां कर्मतापन्नाम् । वसतिम् । कस्मिन् । पदे। किंविशिष्टे ।'अन्तिमे मोक्षे इति निष्कर्षः । पुनः किंवि. शिष्टे ।'अपदेहे ' अपगतो देहः-शरीरं यत्र तत् तस्मिन्, मोक्षे शरीराभावात्। 'त्रिलोकबन्धो!' इति । त्रिलोकस्य बन्धुरिव बन्धुः यः स तस्यामन्त्रणम्,हितोपदेशकत्वात् । 'गमनय योगतत!' इति ।गमा:-सदृशपाठाः, नया:नैगमादयः पूर्व 'द्वन्द्व', तेषां योगः-सम्बन्धः, तेन ततं-विस्तीर्णं यत् तत् तस्यामन्त्रणम्। 'विततापवर्गवीथीगा नययो! इति । वितता-विस्तीर्णा या अपवर्गवीथी-मोक्षमार्गस्तत्र गमने ययुरिव ययुर्यः स तस्यामन्त्रणमा "ययुरश्वोऽश्वमेधीयः" इत्यभिधानचिन्तामणिः (का. ४, श्लो०३०९)। यथा तुरङ्गमः स्वस्वामिनः समीहितपदं नयति तथाऽयं सिद्धान्तोऽपि स्वाध्येतुः मोक्षं प्रापयतीत्यभिप्रायः । एतानि सर्वाण्यपि जिनमतस्य सम्बोधनपदानि । 'गततान्ति' इति ‘तमुच् काकायाम्' इति धातोर्गनतान्तौत अपेतग्लानिर्यथा स्यात् तथेति क्रियाविशेषणम् ॥ इति तृतीयवृत्तार्थः ॥३॥
१ अस्योल्लेखोऽमरेऽपि ( श्लो० १५५८ )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org