________________
२६ स्तुतियतविंशतिका
[२ श्रीअजितकथम् ? ' गततान्ति । अपराणि सर्वाणि जिनमतस्य सम्बोधनानि । तेषां व्याख्या यया- 'हे त्रिलोकबन्धो' ! त्रयो लोकाः स्वर्ग-मर्त्य-पाताललक्षणास्तेषां बन्धुरिव बन्धुः, त्राणैकचिन्तापरत्वात् । तस्य सम्बोधनं हे त्रिलो० । हे 'गमनययोगतत' ! गमाः-सदृशपाठः नया:-नैगमसंग्रहादयस्तैोगः-सम्बन्धस्तेन ततं-विस्तीर्ण-विशालं, तत्सम्बो. हे गमः ।हे 'विततापवगंवाधिगमनययो' ! वितता-विस्तृता याऽपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तत्र ययुः-तुरङ्गमः तत्र सुखेन प्रापकत्वात, तत्सम्बो० हे वित० । अत्र गततान्तीति यत् क्रियाविशेपणत्वेनाभिहितं तत् जिनमतस्य सम्बोधनं विशेषणं वाऽपि युज्यत एव । तथा द्वितीयपदस्या, न्तर्वर्ती इशब्दस्त्वाभिमुख्याभिव्यक्तये सर्वेषां सम्बोधनानामादौ योज्यते ॥
अथ समासः-त्रयश्च ते लोकाश्च त्रिलोकाः ‘कर्मधारयः' । त्रिलोकानां बन्धुत्रिलोकबन्धुः 'तत्पुरुषः । तत्सम्बो० हे त्रिलो० । गमाश्च नयाश्च गमनयाः 'इतरेतरद्वन्द्वः ।। गमनयानां योगो गमन० ' तत्पुरुषः । गमनययोगेन ततं गमन० 'तत्पुरुषः' । तत्सम्बो. हे गमन । जिनानां मतं जिनमतम् ' तत्पुरुषः । तत्सम्बो. हे जिन० । अपवर्गस्य वीथी अपवर्गवी. तत्पुरुषः । वितता चासावपवर्गवीथी च वितता. 'कर्मधारयः । विततापवर्गवीथ्यां गमनं विततापव० 'तत्पुरुषः। विततापवर्गवीथीगमने ययुः विततापव० ' तत्पुरुषः । तत्सम्बो० हे विततापव० । गता तान्तिर्यस्मात् तत् गततान्ति ' बहुव्रीहिः ।। अपगतो देहो यस्मात् तत् अपदेहम् ' बहुव्रीहिः ।। तस्मिन्नपदेहे ।। इति काव्यार्थः ॥ ३ ॥
सि० ४०-प्रवितरेति । हे जिनमत !-तीर्थकरागम ! त्वं मे--मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्य लोकस्यान्ते स्थाने-मोक्षे इत्यर्थः, गततान्ति-अपगतग्लानि यथा स्यात् तथा वसति-वासं प्रवितरप्रकर्षणार्पयेत्यर्थः । प्रपूर्वक ' तु प्लवनतरणयोः' इति धातोः 'आशी:प्रेरणयोः ( सा० सू०७०३),कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । त अग्रे हि: 'अप' 'गुणः' (सा० सू० ६९१-६९२ ), 'अतः' (सा० सू० ७०५) इति हेर्लुक्, स्वरहीनम् ० ' (सा० सू० ३६) । तथाच प्रवितर इति क्रिया निष्पन्ना । अत्र 'प्रवितर' इति क्रियापदम् । कः कर्ता । त्वम् । कां कर्मतापन्नाम् ? । वसतिम् । " वसतिः स्थानवेश्मनोः " ( वसती रात्रिवेश्मनोः !) इत्यमरः ( श्लो० २४६८)। कस्मिन् !। पदे-स्थाने । " पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु" इत्यमरः ( श्लो० २५२१)। कस्य !। मे-मम । कथम् ? । गततान्ति । कीदृशे पदे ? । ' अपदेहे ' अपगतो देहः-कायो यस्मिन् स तथा तस्मिन् इति — बहुव्रीहिः ।। देहस्यापि दुःखान्तर्भूतत्वेन मोक्षे तदभावादिति भावः । “ नित्यानन्दसुखाभिव्यक्तिः" इति श्रुतेः । अपराणि सर्वाणि जिनमतस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-' हे त्रिलोकबन्धो'! त्रयश्च ते लोकाश्च-स्वर्गमृत्यु(मर्त्य ! ) पाताललक्षणाः तेषां बन्धुरिव बन्धुत्रिलोकबन्धुः, तस्य सम्बो. हे त्रिलोकबन्धो ! । हे ' गमनययोगतत! गमाः-सदृशपाठाः, नया-नैगमसंग्रहादयः, गमाश्च नयाश्च गम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org