________________
जिनतयः]
स्ततिचतुर्विशतिका
अथ समास:-जिवानां निवहः जिननिवहः, तं जिननिवहम् । अर्त्या तप्ताः अर्तितप्ताः, अध्वनि नदः अध्वनदार, अर्तितप्तानां अध्वनदः अर्तितताध्वनदः, रमते असौ रामः, सुशोभनो रामः सुरामः, अतितप्ताध्वनदवत् सुरामः अर्तितप्ताध्वनदसुरामः, अर्तितप्ताध्वनदसुरामश्चासौ रवश्च अर्तितप्तावनदसुरामरवः, तेन अर्तितप्ताध्यमदसुरामरवेण । वस्तूनि विद्यन्ते येषु सानि वस्तुवन्ति । अमराणां पतयः अमरपतयः । गीयते इति गाय', प्रकर्षेण गीयते इति प्रगायः । असुराश्च अमराश्च असुरामराः, असुरामराणा बेणकः असुरामरवेणवः, पार्श्वे ध्वनन्तः पार्श्वध्वनन्तः, पार्श्वध्वनन्तः असुरामरवेणवो येषां ते पार्चध्वनदसुरामरवेणवः ॥ इति द्वितीयवृत्तार्थः॥२॥
दे० ब्या०-स्तुत जिननिवहमिति । तं जिननिवहं-तीर्थंकरसमूहं यूयं स्तुत-स्तुतिगोचरीकुरुतेत्यन्वयः। 'ष्टुञ् स्तुतौ' धातुः । 'स्तुत' इति क्रियापदम् । लोट् परस्मैपदमध्यमपुरुषबहवचनान्तम् । के कर्तारः? । यूयम् । कं कर्मतापन्नम् ।।'जिननिवहं जिनानां निवहं जिननिवहम् इति समासः। यत्तदोर्नित्याभिसम्बन्धात् यं जिननिवहं अमरपतयः-सुरेन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति इस्यन्वयः। 'स्तुवन्ति' इति क्रियापदम् । के ! 'अमरपतयः' अमराणां पतयः अमरपतयः इति विग्रहः। कं कर्मनापन्नम् ? । जिननिवहम् । किं कृत्वा । प्रगाय-प्रकर्षेण गात्वा । प्रशब्दनात्र भक्तिश्रद्धातिशयलक्षणः प्रकर्षों द्योत्यते । कानि । वस्तुवन्ति-छन्दोविशेषणानि । केन? । 'अर्तितप्ताध्वनदसुरामरवेण' अा-पीड्या तप्तानां-ज्वलितानां शैत्याधायकत्वेन अध्वनर इव यःसुप्तरां रमणीयो रवो-वनिविशेषः तेन, अथवा अर्तितप्ता इति सम्बोधनम् हे अर्तितप्ताः!। स्तुत इति सम्बयः। ध्यान-नानार्थान् भवनितान् कुर्वन, असून्-प्राणान् रमयति इति असुरामः, तादृशो यो रवः स ध्वनदसुरामरवः, तेन वस्तुबन्ति-अर्थवन्ति प्रगाय इति व्याख्ययम् । किविशिष्टा अमरपतयः? । 'पार्श्वध्वनदसुरामरवेणवः' असुराश्च अमराश्चेति पूर्व 'द्वन्द्वः । ततः पाश्चे-समीपे ध्वनन्तो-बायमाना असरामराणां वेणवो-वंशा येषां ते तथा ।। इति द्वितीयवृत्तार्थः ॥२॥
जिनमतविचारः
प्रवितर वसतिं त्रिलोकबन्धो !
गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथीगमनययो ! गततान्ति मेऽपदेहे ॥ ३ ॥
--पुष्पि० ज०वि०वितरेति । हे जिनमत !-तीर्थकरागम ! स्वं मे-मम अन्तिमे पदेचतुर्दशरज्जुप्रमाणस्य लोकस्यान्त्ये स्थाने मोक्ष इत्यर्थः, अपदेहे -अपगतशरीरे सत्र प्राप्तानां सिद्धामा देहपञ्चकस्यापगमेनोपचारात् तत्पदमप्यपदेहमेवोच्यते, तत्र वसति-वासं गततान्ति-अपगतग्लानि यथा स्यात् तथा, क्रियाविशेषणमेतत्, प्रवितर-प्रकर्पण देहीति क्रियाकारकान्वयः। अत्र 'प्रवितर ' इति क्रियापदम् । किं कर्तृ ? ' त्वम् ।। कां कर्मतापन्नाम् ? ' वसतिम् । कस्मिन् ? 'पदे ।। कथंभूते ? ' अन्तिमे ।। पुनः कथंभूते ? ' अपदहे' । कस्य ? 'मे'। १ प्रकर्षेण गात्वा इति प्रगाय इति प्रतिभाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org