________________
२४
स्तुतिचतुर्विशतिका
[२ श्रीअजित
पुरुषबहुवचनं त । ष्टुञ् अग्रे अप् ‘अदादेर्लुक' (सा०सू०८८०) । 'आदेः ष्णः स्नः' (सा०सू०७४८) इति षकारस्य सकारः। ' निमित्ताभावे नैमित्तिकस्याप्यमावः ' इति टकारस्य तकारः । तथा च ' स्तुत ' इति सिद्धम् । अत्र 'स्तुत' इति क्रियापदम् । के कर्तारः ! । यूयम् । कं कर्मतापन्नम् !। जिननिवहम् । जिनानां निवहः-समूहो जिननिवहः, तं जिननिवहम् । “ समूहो निवहव्यूह-सन्दोहावसरवनाः" इत्यमरः ( श्लो० १०६५ ) । यत्तदोः परस्परं सापेक्षत्वात् तं कम् ! । यं जिननिवहं अमरपतयः-इन्द्राः स्तुवन्ति. स्तुतिविषयीकुर्वन्ति । 'टुञ् स्तुती ' अग्रे वर्तमाने अन्ति । ' आदे: ष्णः स्न: ' ( सा० सू० ७४८ ) इति षकारस्य सकारः, ततः अप् ' अदादे क्' (सा० सू० ८८०) 'नु धातोः' इत्युत् ' स्वरहीनम् ' (सा० सू० ३६) । तथा च ' स्तुवन्ति' इति सिद्धम् । अत्र ' स्तुवन्ति । इति क्रियापदम् । के कर्तारः ! । ' अमरपतयः' अमरा-देवाः तेषां पतयः-स्वामिनः अमरपतयः । के कर्मतापन्नम् ! । यम् । कथंभूता अमरपतयः । 'पार्श्वध्वनदसुरामरवेणवः पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुरामराणां, असुराश्च अमराश्चेति । द्वन्द्वः, ' तेषां वेणवो-वंशाः येषां ते तथोक्ताः, अमरपतीनां पार्थेषु स्थिताः असुरा अमराश्च वंशान् वादयन्तीत्यर्थः । “ वेणुवंशे नृपान्तरे " इति विश्वः । किं कृत्वा स्तुवन्ति ? । प्रगाय-प्रकर्षेण गात्वा । कानि ? । वस्तुवन्ति-छन्दोविशेषाणि । केन कृत्वा ? । 'अर्तितप्ताध्वनदसुरामरवेण' अतिः-पीडा तया तप्ताः-तापव्याकुल भूताः पान्थादयः तेषां अध्वनदो-मार्गहृदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठ रामो-मनोज्ञः स्वः-ध्वनिः तेन ।
" रामः पशविशेषे स्यात् , जामदग्न्ये हलायुधे ।
राघवे चासितश्वेत-मनोज्ञेषु च वाच्यवत् ॥" इति विश्वः । इदं हि पदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र यक्तिमत्, अथषा अर्तितप्ताः इति संबोधनम् हे अर्तितप्ताः ! स्तुत इति संबन्धः । ध्वनन्-नानार्थान् ध्वनितान् कुर्वन् असून-प्राणान् रामयति असुरामः तादृशो यो रवः स ध्वनदसुरामरवः तेन वस्तुवन्ति अर्थवन्ति प्रगाय इति व्याख्येयम् ॥ २॥
सौ० वृ०-स्तुत इति । यूयं तं जिननिवहं स्तुत इत्यन्वयः । 'स्तुत' इति क्रियापदम् । के कर्तारः ? । यूयम् । 'स्तुत' प्रणुत । कं कर्मतापन्नम् ? । 'जिननिवहं' तीर्थकरवृन्दम् । किं कृत्वा ? । 'प्रगाय ' प्रकर्षेण गात्वा । कानि कर्मतापन्नानि ? । वस्तु-छन्दोविशेषः तद्वन्ति गीतानि 'वस्तुवन्ति । केन?। अतितप्ता अा-पीडया तप्ता-बाधिता ये प्राणिनः तेषां सुखदायकत्वात अध्यमद इव-मार्गह्रद इव सुष्टु-शोभनः रामः-रमणीयः रवः-शब्दः तेन 'अर्तितप्ताध्वनदसुरामरवेण' । किंविशिष्टं जिननिवहम् ? । 'तं ' प्रसिद्धम् । तं कम् ? । अमरपतयः-सुरेन्द्रा यं जिननिवहं स्तुवन्ति इत्यन्वयः। 'स्तुवन्ति' इति क्रियापदम् । के कर्तारः । अमरपतयः । 'स्तुवन्ति ' वन्दन्ते । के कर्मतापनम् ? । 'यं जिननिवहम्।' किंविशिष्टा अमरपतयः । पार्श्व-समीपे ध्वनन्तः-शब्दायमानाः असुराभुवनपत्यादयः अमरा:-वैमानिकादयः तेषां वेणवो-वंशाः येषां ते 'पार्श्वध्वनदसुरामरवेणवः' तथा 'व्यत्यये लुग् वा' (सि.अ.१, पा.३ सू.५६) इति सूत्रेण रेफस्य लुक् विसर्गलोपः, इति पदार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org