________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका जिनकदम्बकामिनुतिः
स्तुत जिननिवहं तमर्तितप्ता
ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवः स्तुवन्ति ॥ २ ॥
-पुष्पि. ज०वि०-स्तुत जिननिवहमिति । भो भव्याः! यूयं तं जिननिव-जिनसमूह स्तुतस्तवनविषयीकुरुतेति क्रियाकारकघटना । अत्र 'स्तुत' इति क्रियापदम् । के कर्तारः ? 'यूयम्' । के कर्मतापन्नम् ? 'जिननिवहम्' । यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? यं अमरपतयः-इन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति । अत्र · स्तुवन्ति । इति क्रियापदम् । के कर्तारः ? 'अमरपतयः ।।कं कर्मतापन्नम् ? 'यम् ।। कथंभूता अमरपतयः ? 'पार्श्वध्वनदसुरामरवेणवः पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुराणां अमराणां च वेणवो-वंशा येषां ते तथोक्ताः । अमरपतीनां पार्थेषु स्थिता असुरा अमराश्च वंशान वादयन्तीत्यर्थः । किं कृत्वा? स्तुवन्ति ? 'प्रगाय ' प्रकर्षण गीत्वा । कानि ? 'वस्तुवन्ति' छन्दोविशेषान् । केन कृत्वा ? अर्तितप्ताध्वनदसुरामरवेण व: अर्तिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयस्तेषामध्वनदो-मार्गदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठ रमणीयो धनिस्तेन । इदं हि पदम् करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत् ॥
अथ समास:--जिनानां निवहो जिननिवहः 'तत्पुरुषः । तं जिन० । अयो तप्ताः अर्तितप्ताः ' तत्पुरुषः । अध्वनो नदः अध्वनदः ' तत्पुरुषः ।। अर्तितप्तानामध्वनदः अर्तितप्ता० 'तत्पुरुषः । सुष्ठ रामः सुरामः ' तत्पुरुषः' । सुरामश्चासौ रवश्च सुरामरवः ‘कर्मधारयः।। अर्तितताध्वनदश्चासौ सुरामरवश्च अर्ति० 'कर्मधारयः । तेन अति । अमराणां पतयः अमरपतयः 'तत्पुरुषः' । असुराश्च अमराश्व असुरामराः 'इतरेतरद्वन्द्वः । असुरामराणां वेणव: असुरा• 'तत्पुरुषः' । ध्वनन्तश्च तेऽसुरामरवेणवश्व ध्वनदसुरामरवेणवः 'कर्मधारयः । पार्षे ध्वनदसुरामरवेणवो येषां ते पार्श्वध्व० 'बहुव्रीहिः। ॥ इति काव्याः ॥२॥
सि. वृ०-स्तुत जिननिवहमिति । मो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तुतिविषयी कुरुतेत्यर्थः । 'ष्टुञ् स्तुतौ' इति धातोः 'आशीः प्रेरणयोः (सा०स०१०३)' कर्तरि परस्मैपदे मध्यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org