________________
स्वतिचतुर्विशतिका
[२ श्रीअजितअथवा अस्ता-उज्झिताः कान्ताः-स्त्रियो येन इत्यजितनिनस्यैवेदं विशेषणम् । पुनः कीदृशम् ! । तम् । तच्छब्दस्य 'त्यदादेष्ट रः स्यादौ' (सा०सू० १७५) इति टेरात्वे 'अम्शसोरस्य' (सा० स० १२१ ) इत्यकारलोपे च अमो रूपम् ॥ १॥
सौ० वि०-तमजितमिति । यः वृषेण-धर्मेण-आत्मस्वरूपेण भाति स कर्मभिरजितो भवति । अनेन संबन्धेन आयातस्य अजितदेवस्य स्तुतिः प्रारभ्यते । तमजितमिति । अहं तं अजितं-अजितामिधानं तीर्थकरं [अभिनौमि] । 'अभिनौमि' इति क्रियापदम् । कः कर्ता ? । 'अहम्' मल्लक्षणः । अभि-त्रिकरणशुद्धचा स्तवीमि। ककमेतापनम् ।। जितम् । किविशिष्टं जितम् । तं'प्रसिद्धम् । तं कम् । यो भगवाम् निजं-स्वकीयं यत् जननं-जन्म तस्य महोत्सवः तस्मिन् निजजननमहोत्सवे विराजन्तिशोभमानानि यानि वनानि भद्रशाल-सौमनस-नन्दन-पाण्डुकप्रभृतीनि तैः घनः निचितः एतादृशो यो मेरुः परः-प्रकृष्टा यः अग:-पवतः तस्य मस्तकं -शिखरं तस्य अन्त:-अग्रभाग: शिखरा अधितष्ठौ इत्यन्वयः। 'अधितष्ठौ' इति क्रियापदम् । कः कर्ता ?। 'यः' भगवान । 'अधितष्ठौ' अधिष्ठितवान्। के कमतापन्नम्।विराजद्वनघनमेरुपरागमस्तकान्तम् । कस्मिन् ! निजजननमहोत्सवे'स्वकीयजन्मक्षणे । किंविशिष्टं विराजमस्तकान्तम् ? । अनघा-निरवधा-निष्पापा कमेरक:-कल्पतरवः शालवृक्षा वा तेषा परागो-मकरन्दो यस्मिन सः अनघनमेरुपरागः, तं अनघनमेरुपरागम । किंविशिष्ट अजितम् ? । अस्ताउज्झिताः त्यक्ताः कान्ताः-सियो येन सः अस्तकान्तः, त 'अस्तकान्तं', पक्षे विराजदूना:-शोभमानाम्भसा घनाः-मेघा यत्र एतादृशो मेरुः तस्य शिखरं इति छायार्थः । इति पदार्थः ।
अथ समासः-न जितः अजितः, तं अजितम् । गर्भस्थे भगवति राज्ञा अक्षक्रीडायां मातुः अजितत्वात् अजित इति नामाजनि। विराजन्तिच तानि वनानि विराजद्वनानि, विराजद्वनैःघनः विराजनघनः, विराजद्वनघनश्चासौ मेरुश्च विराजद्वनघनमेरुः, विराजद्वनघनमेरुश्चासौ परागश्च विराजद्वनघनमेरुपरागः, विरा०परागस्य मस्तक विरा०परागमस्तकं, विराज०मस्तकस्य अन्तः विरामस्तकान्तः, तं विरा० मस्तकान्तम । निजस्य जननं निजजननम्, महांश्चासौ उत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे । अनघाश्च ते नमेरवश्च अनघनमेरवः, अनघनमेरूणां परागो यस्मिन् सः अनघनमेरुपरागः,तं अनघनमेरुपरागम् । अस्ता कान्ता येन सः अस्तकान्तः, तं अस्तकान्तं अथवा अस्तं-स्वर्ण तद्वव कान्तो-रम्यः तं अस्तकान्तम् । “अस्तं स्वर्णसुमाम्मसः" इत्यनेकार्थः । 'अस्तं सुवर्णे वनोपान्ते' इति व्याडिः। अनोपजातो मत्तमयूर पुष्पितामा?) च्छन्दसा प्रथमवृत्तार्थः ॥ द्वितीयान्त्यपदयोः यमकालङ्कारः ॥११॥
दे० व्या०-तमजितमिति । तं अजितं-अजितनाथं अहं नौमि-स्तवीमि इत्यन्वयः । 'णु स्तुतौ' धातुः। अभिनोमिइति क्रियापदम् । कः कर्ता। अहम् । के कर्मतापन्नम् । आजितम् । यत्तदोमित्याभिसम्बन्धात यः अजितः निजजननमहोत्सवे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठी-स्थितवान् । 'ष्ठागतिनिवृत्ती' धात अधितष्ठौति क्रियापदम्। काकर्ता । अजितः। कं कर्मतापन्नम्।। विराजनघनमेरुपरागमस्तकालमा विराजन्ति च तानि वनानि चेति कर्मधारयः'।तःघनो-निबिडः, यद्वा विराजन्त:-शोभमाना बनघनाः-सजला मेघा यत्र, सचासो मेरुपरागः-मेरुनामा प्रकृष्टपर्वतःतस्य मस्तकान्त-शिखराग्रप्रदेशम् । कार 'निजजननमहोत्सवे 'निजजननस्य-स्वकीयप्रसूतेः महान्-प्रकृष्टो यः उत्सवः-क्षणः तस्मिन् । किंविशिष्टं विराजनघनमेरुपरागमस्तकान्तम् । 'अनघनमेरुपरागम् । अनघाः-पवित्रा ये नमेरवो-देववक्षास्तेषां परागःपुष्परेणुः यत्र स तम् । पुनः किंविशिष्टम् ।। 'अस्तकान्तम् । अस्तगिरिवत् कान्तं-कमनीयम्, अस्ता-त्यका कान्ता-ललना येनेति जिनविशेषणं वा ॥ इति प्रथमवृत्तार्थः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org