________________
मिस्तुतः ]
वैिशतिका
जनम० । नमेरूणां पराणो ममेरुप० ' तत्पुरुषः ' । न विद्यतेऽधं यस्मिन् सोऽनघः 'बहुव्रीहिः । अनघो नमेरुपरागो यस्मिन् सोऽनघमेरुपरागः 'बहुव्रीहि: ' । तमनघमेरु० । अस्तवत् कान्तोऽस्तकान्तः ' तत्पुरुषः ' । तमस्तकान्तम् । जिनविशेषणपक्षे तु अस्ताः कान्ता येन सोsस्तकान्तः 'बहुव्रीहिः ' । समस्तकान्तम् ॥ इति काव्यार्थः ॥ १ ॥
t
सि० वृ०-तमजितमभिनौमीति । अहं तं अजितं - अजितनाथं अभिनौमि - अभिष्टुवे इत्यर्थः । अभिपूर्वक 'णु स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषैकवचनं मिप्, 'अप् कर्तरि' (सा० सू० १९१ ), ' अदादेर्लुक् ' ( सा० सू० ८८० ), ' खोरौ ' ( सा० सू० १९१ ) इत्युकारस्य औकारः । तथा च अभिनौमि इति निष्पन्नम् । अत्र ' अभिनौमि ' इति क्रियापदम् । कः कर्ता ! | अहम् । कं कर्मतापनस् ? | अजितम् । परीषहादिभिर्न जिव इत्यजितः तम् । यत्तदोः परस्परं सापेक्षस्वात् तं कम् । योऽजितजिनो निजजननमहोत्सवे - स्वकीय जन्म महामहे विराजद्वनवनमेरुपरागमस्तकान्तं अघितष्ठौ-अधिष्ठितवान्-आश्रितवान् इत्यर्थः । अधिपूर्वकस्य ' ष्ठा गतिनिवृत्तौ ' इति धातोः परोक्षायां कर्तरि परस्मैपदे प्रथमपुरुषैकवचने णप् । 'आदेः ष्ण: स्नः' (सा०सू०७४८) इति षकारस्य सकारः । निमित्ताभावे नैमित्तिकस्याप्यभावः' इति ठकारस्य थकारः । 'द्विश्व' (सा०सू० ७१० ) इति द्वित्म् स्था स्था णम् इति स्थिते न 'शसात् खपाः' (सा०सू० ७४१) इत्यनेन सकारस्य लोपः । 'हस्वः' (सा०सू०७१३) इति पूर्वस्य -हस्वत्वम्, 'झपानां जबचपाः' (सा०सू० ७१४) ' इति थकारस्य तकारः । ‘आतो णप् डौ' (सा०सू० ८०४ ) इति णप: डॉ डित्वाच्च टिलोपः । 'अडभ्यासव्यवायेऽपि (का० वा० १६९९ ) इति स्क्म् । इति प्रक्रियासूत्रेण तिष्ठौ इति सिद्धम् । सारस्वते तु अधितस्थौ इत्येष भवति इति । क्वं तु 'प्रादेश्व सथा तौ सुनमाम्' (सा० सू० ७५० ) इत्थमेनानागमः । द्वित्वव्यवधानेऽपि धातोः सस्य षत्वे ' ष्टुभिः टुः' (सा० सू० ७९ ) इति टत्वे च सारस्वतेऽध्यधितञ्चाविति भवति । ' लोकाच्छेषस्य सिद्धिः ' (सा० सू० १४९४ ) इत्युक्तेः इति ब्रूमः | अत एव रघों अपि षष्ठे सगे अधितष्ठावित्यत्र संजीविनीकारोऽपि 'अडभ्यासव्यवायेऽपि षत्वम् ' इत्येवालीलिखत् । अत्र ' अधितष्ठौ ' इति क्रियापदम् । कः कर्ता ! । अजितः । कं कर्मसाथ!।' विराजद्वनवनमेरूपराम मलकान्तम् ' बिराजन्ति- शोभनानि यामि बनानि तैर्घनो - निविडो यो मेरुलक्षणः परागः परः - प्रकृष्टः स वासौ अगः - पर्वतः तस्य मस्तकान्तं - शिखराग्रम् । यद्वा विरामद्वनाः - शोभमानाम्भसः, “ वनं कानननीरयोः " इति विश्वः स्यात् षण्डं काननं वनं " इति हैम: ( का० ४, श्लो० १७६ ) बना:- मेवाः यस्मिन् । शेषं पूर्ववत् । कस्मिन् ।' निजजननमहोत्सवे ' महांश्चासावुत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः तस्मिन् निजजननमहोत्सवे । कीदृशम् ? । 'अनघनमेरुपरागम् ' अनत्राः - पवित्रा ये नमेखो-देववृक्षाः तेषां परामः - पुष्परे जुर्यत्र स तथा तम् । “नमेरुः सुरपुन्नागे" इति विश्वः । पुनः कथंभूतम् ? । 'अस्तकान्तं' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् । " अस्तस्तु चरमः क्ष्माभृत्" इत्यमरः ( ० ११७ ) ।
66
१ निर्णयसागरमुद्रितपुस्तके (स०६. लो०७३) सजीविनिवृत्तौ 'स्थादिष्वभ्यासेन चाभ्यासस्य (पा.८|३|६४) इत्यभ्यासेन
Jain Education International
२१
For Private & Personal Use Only
www.jainelibrary.org