________________
२ श्रीअजितजिनस्तुतयः अथ अजितनाथ-प्रणाम:
तमजितमभिनौमि यो विराजद
वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनधनमेरुपरागमस्तकान्तम् ॥ १॥
-पुष्पिताया ज० वि-तमजितमिति । अहं तं अजितं-द्वितीयं तीर्थकरं अभिनौमि-अभिटुवे इति क्रियाकारकयोगः । अत्र 'अभिनौमि' इति क्रियापदम् । कः कर्ता ? 'अहम्' । कं कर्मतापन्नम् ? ' अजितम् । । यत्तदोः परस्परसापेक्षत्वात् तं कम् ? य: अजितजिनः निजजनममहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं-विराजन्ति-शोभनानि यानि वनानि तैनो-निरन्तरो यो मेरुलक्षणः परागः-प्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं, यद्वा विराजदूना:-शोभमानाम्भसो घना-मेघा यस्मिन् तादृशो यो मेरुपरागस्तस्य मस्तकान्तं अधितष्ठौ-अधिष्ठितवान्, आश्रितवानित्यर्थः । अत्र 'अधितष्ठौ । इति क्रियापदम् । कः कर्ता ? 'या' ।कं कर्मतापन्नम् ? 'विराजद्वनघनमेरुपरागमस्तकान्तम् ।। कस्मिन् ? 'निजजननमहोत्सवे । विराज. कथंभूतम् ? ' अनघनमेरुपरागम् । अनघः-अनवद्यः नमेरुणां-देवक्षविशेषाणां परागः-रेणुर्यत्र स तथा तम् । पुनः कथंभूतम् ? ' अस्तकान्तम् । अस्त:-अस्तगिरिः-मन्दरः तद्वत कान्तं-कमनीयम् । बद्दा अस्ता-उज्झिताः कान्ताः-त्रियो येनेति अजित स्वामिन एवेदं विशेषणम् ॥
अथ समासः-विराजस्ति च तानि वनानि च विराज० 'कर्मधारयः । विराजनैनो विराज. तत्पुरुषः' । परश्वासौ अगश्च परागः कर्मधारयः।। मेरुश्वासौ परागश्च मेरु. 'कर्मधारयः' । विराजद्वनघनश्वासौ मेरुपरागश्च विराज. कर्मधारयः ।। विराजनघनमरुपरागस्य मस्तकं विराज. तत्पुरुषः। । विराजद्वनघनमेरुपरागमस्तकस्यान्तो विराज० 'तत्पुरुषः' । तंविराज० । यद्वा विराजद् वनं येषु ते विराजद्वनाः 'बहुव्रीहिः ।विराजद्वनाः घना यस्मिन् स विराजः 'बहुव्रीहिः । शेषं मेदिकं पूर्ववत् समस्यते । महावासावुत्सवश्च महोत्सवः 'कर्मधारयः । जननस्य महोत्सवो जनन तत्पुरुषः । तस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org