________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
देव्या०-शीतांशुत्विषीति । श्रुतदेवता-भारतीदेवी वो-युष्माकं आशु-शीघ्रं यथा स्यात् तथा पायात्रक्षतात् इत्यन्वयः । 'पायात्' इति क्रियापदम् । का कत्री ? । श्रुतदेवता । केषाम् । वः । किांवशिष्टा श्रुतदेवता ।। 'सरला' अवका कैतवाभावात्, गात्रस्य ऋजुत्वाद् वा । पुनः किवीशष्टा ?।'अलसा' मन्थरा मन्थरगतित्वात् । पुनः किंविशिष्टा । समुदिता-सहर्षा । पुनः किं० । शुभ्रा-गौरा, वर्णेन इति शेषः । "अवदातगौरशुभ्र०'' इत्यभिधानचिन्तामणिः (का०६, श्लो०२९) । पुनः किं०विशिष्टा? । 'अमरीभासिता' अमर्यः-देववध्वः ताभिः भासिता-शोभिता । यद्वा अमरीणां भा-कान्तिः तया सिता-बद्धा तासां सप
कारित्वेन समीपतरवृत्तित्वात् । “कीलितो यन्त्रितः सितः” इत्यभिधानचिन्तामाणः (का० ३, श्लो०१०२)। किं कुर्वती श्रुतदेवता । निद्धती-स्थापयन्ती। कौ ?। क्रमौ-चलनौ। “पादोऽड्डि (पदोऽहि !) श्चलनः क्रमः” इत्यभिधानचिन्तामाणः (का० ३, श्लो० २८० )। कस्मिन् ? । तत्र नालीके-तस्मिन् कमले । तत्र कुत्रेत्याह-यत्रोत । यत्र-यस्मिन् नालीके भ्रामरी-भ्रमैरसंबन्धिनी आली-श्रेणिः गन्धाट्यधूलीकणान् नित्यं-अनवरतं यथा स्यात् तथा अदधत्-पपौ । 'धेट पाने' धातुः । 'अदधत्' इति क्रियापदम् । का की। भ्रामरी आली। कानू कर्मतापन्नान् ?'गन्धाढ्यधूलीकणान' गन्धेन आट्या-व्याप्ता ये धुलीकणा:पुष्परजांसि तान् ।धूलीत्यत्र 'कृदिकारादक्तेरीप् [वा वक्तव्यः] ' (सा०सू०४००) इत्यनेने। किंविशिष्ट नालीके?। 'शीतांशविषि' शीतांशुः-चन्द्रः तद्वत् विद-कान्तिःयस्य तत् तस्मिन्, चन्द्रवदुज्ज्वले इति निष्कर्षः। किंविशिक्षा भ्रामरी आली! । केसरलालसा। केसरं-किअल्कं तत्र लालसा-लम्पटा । "किंजल्कः केसरोऽस्त्रियाम ,, इत्यमरः । पुनः किविशिष्टा ? । समुदिता-मिलिता । पुनः किंविशिष्टा ? । इभासिता इभः-करी तद्वत्-असिता। "कृष्णः स्यादसितः शितिः' इत्यभिधानचिन्तामणिः (का० ६, श्लो० ३३) । यदा तु इभे-गजे आसिता-विश्रब्धा इत्यर्थः तदा पूर्व इति शेषः । किंविशिष्टी क्रमौ ? । 'अब्जकान्ती' अज-कमलं तद्वत् कान्तिः- श्रीः ययोः तौ ॥४॥ इति चतुर्थवृत्तार्थः । शार्दूलविक्रीडितं छन्दः । 'आदित्यैर्यदि मः सजौ सततगा शार्दूलविक्रीडितम्' इति च तल्लक्षणम् ।
प्पO७
नबraj
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org