________________
a
स्तुतिचतुर्विंशतिका
[ १ श्रीऋषभ
रूपस्य पदद्वयस्य पायादित्यनेनापि अन्वयो युक्त एव । आली कथम्भूता ! ।' केसरलालसा ' | केसरंकिञ्जल्कम् । “ किनल्कः केसरोऽस्त्रियाम् ” इत्यमरः ( श्लो० ११२ ) । तस्मिन् लालसा तृष्णातिरेकः औत्सुक्यं वा यस्याः सा केसरलालसा इति 'बहुव्रीहि:' । "तृष्णातिरेके औत्सुक्ये, लालसा लोलयाच्ञयाः' इति 'विश्वः । केसरशब्दोऽत्र दन्त्यमध्यः क्वचित्तालव्यमध्याऽपि । “आन्दोलकुसुमकेशरशरेण तन्वी" इति वासवदत्तायां दर्शनात् । पुनः कथंभूता ? । समुदिता-मिलिता । इतस्ततः समेत्य एकीभूतेत्यर्थः । पुनः कथम्भूता ? 'इमा सिता' इमेषु गजेषु आसिता-स्थिता मदलौल्यात् पूर्वमिति शेषः । यद्वा इभवद् असिता श्यामा इत्यर्थः । “असितं सितिनीलं स्यात्" इत्यमरः ( ? ) । शार्दूलविक्रीडितं छन्दः । ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति तल्लक्षणम् ||४|
इति पादसाहश्रा अकब्बरसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जय तीर्थकरमोचनाद्यनेक सुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावघानसाधनप्रमुदितपादसाह श्री अंकब्बर प्रदत्तषुस्पृहमापराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणित्रिरचितायां शोभनस्तुतिवृत्तौ श्री ऋषभदेवस्तुतिवृत्तिः ॥ १ ॥
सौ० वि० - शीतांश्विति । श्रुतदेवता अमरी वः - युष्मान् पायादित्यन्वयः । ' पायात् ' इति क्रियापदम् | 'पायात्' रक्षतात् । का कर्त्री ? | 'श्रुतदेवता' शासनाधिष्ठायिका । कान् कर्मतापन्नान् ? | 'वः' युष्मान् । किंविशिष्टा श्रुतदेवता ? । 'अमरी' सुरी । पुनः किंविशिष्टा श्रुतदेवता ? । इभो-गजः तत्र आसिता-स्थिता 'इभासिता' । गजवाहना इत्यर्थः । पुनः किंविशिष्टा श्रुतदेवता ? | 'शुभ्रा' गौरवर्णा । किं कुर्वती ? । 'निदधती' स्थापयन्ती । कौ कर्मतापत्नी ? । 'क्रमौ ' चरणौ । किंविशिष्टौ कमौ ! | अब्जं कमलं तद्वत् कान्तिः- प्रभा ययोः तौ' अब्जकान्ती । कुत्र ? । ' तत्र' नालीके - कमले । यत्र कमले भ्रामरी - भ्रमरसम्बन्धिनी आली -श्रेणिः अदधत् - पीतवती । कान् कर्मतापन्नान् ? । 'गन्धाढ्य धूलीकणान् ' गन्धेन सुरभिगन्धेन आढ्या व्याप्ता या धूली- परागः तस्याः कणाः-लवाः तान् । कथम् ? । 'नित्यं' सदा । कुत्र ? | यत्र नालीके । कथंभूते नालीके ? । शीतांशुः - चन्द्रः तद्वत् त्विट् - कान्तिर्यस्य तत् शीतांशुत्विद् तस्मिन् शीतांशुत्विषि । किंविशिष्टा भ्रामरी आली ? । केसरं-किञ्जल्कं केसरा वा तत्र लालसा - गृध्नुः । पुनः किंविशिष्टा आली ? | 'समुदिता' उद्यता । कथम् ? | 'आशु' शीघ्रम् । पुनः किंविशिष्टा भ्रामरी आली ? । इभासिताऽपि । कथंभूता श्रुतदेवता ? । 'भासिता' दीप्तिमती । पुनः किंविशिष्टा श्रुतदेवता ? | 'समुदिता' सहर्षा । इति पदार्थः ॥
अथ पदविग्रहः - शीताः -शांतला : अंशवो यस्य स शीतांशुः शीतांशुवत् त्विट् यस्य तत् शीतांशुत्विद, तस्मिन् शीतांशुत्विषि । अदधत् 'धेटो दधादेशः सौ परे । अदधत् इति सिद्धम् । गन्धेन आढ्या गन्धाढ्या, गन्धाढ्या चासौ धूली च गन्धाढ्यधूली, गन्धाढ्यधूल्याः कणाः गन्धाढ्यधूलीकणाः, तान् गन्धाढ्यधूलीकणान् । केसरेषु लालसा केसरलालसा । सम्यग् उदिता समुदिता । भ्रमराणां इयं भ्रामरी । श्रुतस्य देवता श्रुतदेवता । अब्जवत् कान्तिर्ययोः तौ अब्जकान्ती । किंविशिष्टा श्रुतदेवता ? | सरला ' अवका । पुनः किंविशिष्टा श्रुतदेवता ? । 'अलसा ' मन्थरगामिनी । मुदू संजाता अस्या इति सुदिता तथा सहिता समुदिता । इमे आसिता इभासिता । अत्र वृत्तचतुष्टये मध्यात् पदयमकालङ्कारः ॥४॥
6
11
श्रीमद्युगाविदेवस्य स्तुतेरर्थो लिवीकृतः ।
सौभाग्य सागराख्येण, सूरिणा गुणभूरिणा ॥ १ ॥
इति प्रथमऋषभदेवस्य स्तुतिः ॥
१ नायं पाठः विश्वमेदिन्यो: किन्तु हैम्यनेकार्थे (लो. १३५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org