________________
विवस्त्रया]
खतिवसविनातिका सान गन्धा० । फेसरेषु लालसा केसरलालसा ' तत्पुरुषः । इभेष्वासिता इभासिता 'तत्पु
सा। यद्वा इभवरसिता इभासिता 'तत्पुरुषः । श्रुतस्य देवता श्रुतदेवता 'तत्पुरुषा। अजन् कान्तियोस्तौ अनकान्ती पहुव्रीहिः' । सह मुदितेन वर्तते या मा समुदिता 'सत्पुरुषः । अमरीभि सिता अमरीभासिता 'तत्पुरुषः ॥ इति काव्याः ॥४॥
इति श्रीमद्वृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीऋषमस्तुतिचिः ॥१॥
सि००-भीतांत्विषीति-श्रुतदेवता श्रुतस्य-शास्त्रस्य देवता-वाग्देवी ।"श्रुतं शास्त्राबधृतयोः" इत्यमरः ( श्ला० २४८८)।वो-युष्मान् पायात्-रक्षेत् इत्यन्वयः। 'पा रक्षणे' धातोः 'विधिसंभावनयोः' (सा० सू० १९९) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । पा अग्रे यात् पायात् इति सिद्धम् । लिए इति संज्ञा पाणिनीयानाम् । लादिः तृतीयस्वरमध्यः कवर्गपञ्चमान्त्यश्च । अत्र ‘पायात्' इति क्रियापदम् । का कर्जीः ? श्रुतदेवता । कान् कर्मतापन्नान् ! । यः । कीदृशी श्रुतदेवता ! । सरका-कौटिल्यरहिता । यथोक्ताविहितो. पासनानपि सद्वासनान् सेवकजनान् कृपया कृतार्थीकरणेन ऋजुत्वादिति भावः । पुनः कीदृशी ?। अलसा-आलस्वयुत्ता । अधिगतसर्वेच्छत्वादिति भावः । पुनः कीदृशी ! । ' समुदिता । मुदितं-हर्षितं तेम सह वर्तमाना समुदिता, मनसैव सकलचिन्तितार्थोत्पत्तेः । पुनः कीदृशी ! । शुभ्रा' शुक्ला, गौरवर्णेत्यर्थः । पुनः कथंमृता!। अमरीभासिता ' अमर्यो-देववध्वः ताभि सिता-शोभिता । अङ्गरक्षादिनियोजितानां तासां सर्वदेव समीपवृत्तित्वादितिभावः। किं कुर्वती श्रुतदेवता। निदधती-स्थापयन्ती। को? । क्रमौ-चरणौ । कथंमतौ । भजकान्सी ' अब्ज-कमलं तदिव कान्तिः ययोः तौ भब्जकान्ती । स्वभावतः तयोररुणवर्णवेन कमलकान्स्युपमानम् । अन्नानां कान्तिः याभ्यां तौ अनकान्ती इति वा । पूनार्थपरिमुक्तामादप्यतिशयितसुकुमारत्वेन अतिशयितारुणत्वेन च ताम्यां तस्यापि कान्त्युत्कर्षापादनादिति भावः । कस्मिन् ? । नालीके- कमले। " नालीक पद्मखण्डेऽब्जे, नालीकः शरतल्पयोः" इति विश्वः । कथंभूते । तत्र -तस्मिन् । यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र? । यत्र-यस्मिन् नालीके । कथंभूते ? । यत्र ‘शीतांशुत्विषि' शाताशुः- चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् । भ्रमराणां इयं भ्रामरी । 'तस्येदम्' (पा० अ०४,पा० ३, सू० १२.) इस्यम् भ्रमरसम्बन्धिनीत्यर्थी। आली-श्रेणी । 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्याः-सम्पन्ना ये धूलीकणाः-किअल्क-लवाः तान्। नित्यं-सततम्। आशु-शीघ्रम् 'अदधत्' पीतवती इत्यर्थः । 'धेट पाने' | धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए 'दिबादावट्' (सा०सू०७०७) 'धेटो दधादेशश्च वा वक्तव्यः' इत्यनेन धेटो दधादेशे 'वावसाने' (सा०सू०२४०) इति दकारे अदधत् इति सिद्धम्। 'वा घेटां शोछोषोघ्राधेट' एभ्यः परस्य सेर्लोपो वा भवति, इत्यनेन सेर्लोप 'सन्ध्यक्षराणामा' (सा०सू०८०३) इत्यात्वे च अधात्।सेर्लोयाभावपक्षे अधासीदितिरूपत्रयं भवतीति ज्ञातव्यम्। अत्र ‘अदधत्' इति क्रियापदम्। का की ? । आली। किंसम्बन्धिनी ? । भ्रामरी । कान् कर्मतापनान् ! । गन्घाट्यधूलीकणान् । " लवलेशकणाणवः " इत्यमरः (श्लो० २१४८ ) । कुत्र !। यत्र । यत्र कथंमते ! । शीतांशुत्विषि । कथम् ! । नित्यम् । कथम् ।। आशु-नित्यम् । कथमाश्वित्यव्यय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org