________________
स्तुतिचतुर्विशतिका
[१ श्रीऋषमश्रुतदेवता-स्मरणम्
शीतांशुविषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा
नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥
-शार्दुल० ज० वि०-शीतांशुत्विषीति । श्रुतदेवता-वाग्देवी वा-युष्मान् पायाव-रक्षतु इति क्रियाकारकसम्बन्धः । अत्र 'पायात ' इति क्रियापदम् । का की ? ' श्रुतदेवता'। कान कर्मतापन्नान् ? 'वः । श्रुतदेवता किं कुर्वती ? 'निदधती' स्थापयन्ती । कौ ? 'क्रयौ। चरणौ । कथंभूतौ ? ' अजकान्ती' अनं-कमलं तद्वत् कान्तिर्ययोस्तौ अब्जकान्ती । कस्मिन् ? 'नालीके' कमले । कथंभूते ? : तत्र' तस्मिन् । यत्तदोनित्याभिसम्बन्धात् तत्र कुत्र ? 'यत्रं' यस्मिन् नालाके । कथंभूते यत्र ? 'शीतांशुत्विपि ' शीतांशुः-चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत तथा तस्मिन् । भ्रामरी-भ्रमरसम्बन्धिनी आलो-श्रेणी गन्धाढ्यधुलीकणान्-गन्धे. नाढ्याः-सम्पन्ना ये धूलीकणाः-किञ्जलकविन्दवस्तान नेत्यं-सततं आशु-शीघ्रं अदधत-पीतवती । अत्र 'अदधत्' इति क्रियापदम् । का की ? ' आली' । किं सम्बन्धिनी ? 'भ्रामरी' । कान् कर्मतापन्नान् ? 'गन्धाव्यधुलीकणान् ।। कुत्र ? ' यत्र ' । यत्र कथंभूते ? 'शीतांशुविषि ' । कथम् ? 'नित्यम्' । पुनः कथम् ? ' आशु , नित्यम् । आश्वित्यव्ययरूपस्य पदद्वयस्य पायादित्यनेनाप्यन्वयो-युक्त एव । आकी कथभूता ? । 'केसरलालसा' केसरेषु तद्गर्भपक्ष्मसु वकुलेषु वा लालसा-लम्पटा । पुनः कथंभूता ? 'समुदिता। पिलिता पिण्डीभूतेत्यर्थः । पुनः कथंभूता ? ' इभासिता ' इभेषु-हस्तिषु आसिता-स्थिता मदलोल्यात् । यद्वा इभवदसिता-श्यामा । श्रुतदेवता कथंभूता ? 'सरळा ' कौटिल्यरहिता। पुनः कयंभूता ? ' अलसा ' विश्रब्धा । स्वास्थ्यवतीत्यर्थः । पुनः कथंभूता ? · समुदिता। मुदितं-हर्षितं तेन सह वर्तमाना । पुनः कथंभूता ? ' शुभ्रा ' शुक्लच्छविः । पुनः कथं ? ' अमरीभासिता ' अमरीभिः-अप्सरोभिः भासिता-शोभिता ।।
___ अथ समासः-शीता अंशवो यस्य स शीतांशुः ‘बहुव्रीहिः । शीतांशोरिव स्विट यस्य तत् शीता. 'बहुव्रीहिः' । तस्मिन् शीतां० । गन्धेनाढ्या गन्धाढ्या: 'तत्पुरुषः ।। धूलीनां कणाः धुलीकणाः 'तत्पुरुषः । गन्धाढ्याश्च ते धुलीकणाश्च गन्धा. 'कर्मधारयः ।।
'भ्रामरी भासिता ' इत्यपि पदच्छेदः समीचीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org