________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
पुनः कीदृशं प्रवचनम् ।। दृप्यन्ती-दर्पवती या कुवादिनां-कुपाक्षिकाणां आवली-पंक्तिः सैवरात्मकत्वात रक्षः-राक्षसः तस्य भजनशीला ये हेतवः-कारणानि तैः लाञ्छितं-अङ्कितम् । पुनः कीदृशं प्रवचनम् ? । 'अदा' प्रत्यक्षं दृश्यमानम् । पुनः किंवि० प्रवचनम् । दीर्णः-छिन्नः अङ्गजः-कामो यैस्ते एतादृशाःसाधवः तैः अलङ्कतं-शोभितम् । “निग्गंथे पावयणे" इति वचनात् । दीर्णाङ्गजालङ्कृतम् । इति पदार्थः॥
अथ समासः-अनुगमनं-अनुगमः तस्मात् अनुगमनात्। नैगम आद्यो येषु ते नगमाधाःतैः नैगमाद्यैः। न विद्यते क्षोभो यत्र तत् अक्षोभम् । न विद्यते तुला यस्याः सा अतुला, तां अतुलाम् । छितः मदो यस्मिन् स छितमदः, छितमदेन उदीर्णानि छितमदोदीर्णानि, छिन्दीर्णानि च तानि अङ्गानि छितमदोदीर्णाङ्गानि, छितमदोदीर्णाङ्गानां जालं यत्र तत् छितमदोदीतजालम् । कुत्सितो वादो येषां ते कुवादिनः, कुवादिनां आवली कुवाद्यावली, दृप्यन्ती चासो कुवाद्यावली च दृप्यत्कुवाद्यावली, दृप्यत्कुवाद्यावली एव रक्षांसि दृप्यत्कुवाद्यावलीरक्षांसि, दृप्यत्कुवाधावलीरक्षसां मञ्जनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनं, दृप्यत्कुवाधावलीरक्षोभञ्जने हेतवः दृप्य० दृप्यन्भअनहेतुभिर्लाञ्छितं दृप्यभञ्जनहेतुलाञ्छितम् । दीर्णः अङ्कजो यैस्ते दर्णािङ्गजाः, दीर्णाङ्गजैः अलङ्कतं दीर्णाङ्गजालं० ॥ इति तृतीयवृत्तार्थः ॥ ३ ॥
देच्या शान्तिं वस्त नुतादिति। हे जन !-हे भव्यलोक ! तत् प्रवचनं-गणिपिटकलक्षणं वो-युष्माकं शान्तिउपशमं तनुतात्-विस्तारयतात् इत्यन्वयः । 'तनु विस्तारे'धातुः । 'तनुतात्' इति क्रियापदम् । किं कर्तृ?। प्रवचनम् । कां कर्मतापन्नाम् । शान्तिम् । केषाम् ? । वः । यत्तदोर्नियाभिसम्बन्धात् यत् प्रवचनं अक्षोम-अजेयं वर्तते इत्यध्याहारः । कैः ? । 'नयैः' नयाः-प्रमाणैकदेशाः तैः । किंविशिष्टैः नयै. ? । 'नैगमाद्यैः' नैगम आद्यो येषां से नैगमाद्याः तैः । कस्मात् ? 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् । अत्र 'गुणावनियां न वा' (सिद्धहमे अ०२,पा०२,सू०७७) इतिपञ्चमी किविशिष्टां शान्तिम्?।'अतुला'न विद्यते तुला यस्याः सा तथा साम् । "तुला साम्ये मानदण्डे" इति विश्व । किं० प्रवचनम्! । 'छितमदोदीर्णाङ्गजालम्। छितो-लूनः मदा येन, 'छिन्न लूनं छित दितं' (का०६, श्लो०२५) इति हैमः एतादृशम् । उदीर्ण-उत्सेधितम् अङ्गानां-आचाराङ्गादीनां जालं-निवहो यत्र तत् । “जालं निवहसंचयः (यौ ?)" इत्यभिधानचिन्तामणिः (का०६,श्लो० ४८)। पुनः किंविशिष्टम् ? कृतंनिष्पादितम् । कैः । जिन:-तीर्थकरैः । अर्थतः तैरेव भाषतत्वात् । तथाचोक्तम्-"अत्थं भासह अरहा, सुतं गंथति गणहरा निउणं " इत्यावश्यके। पुनः किंविशिष्टम् ? । 'दृप्यत्कुचायावलीरक्षोभजनहेतुलाचित, दृप्यन्ती-मायन्ती या कुवायावली कुवादिनो-बौद्धादयः तेषां आवली-पत्रिः सेव क्रूराभिमायात् रक्षःकीनाशः तस्य भञ्जना-भङ्गकारिण: ये हेतवो-युक्तयः तैः लाञ्छितं-मण्डितम् । पुनः किं वि० ?। अदःविप्रकृष्टम् , मन्दमेधसामिति शेषः । तदुक्तम्
"इदमः प्रत्यक्षगतं, समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् ॥'-आर्या
इति । अदः प्रत्यक्षदृश्यमिति प्राश्चः । पुनः किंवि० ? । 'दीर्णाङ्गजालकृतम्' दीर्णः-विदारितः अन्जः-कन्दर्पो यैस्ते दीर्णाङ्गजा:-मुनयः तः अलंकृत-भूषितम्, मुमुक्षुप्रधानत्वेन तन्निरूपणात् । किंदिर जिनैः। पूज्यैः-अर्चना: । केपाम् । जगतां-त्रिभुवनानाम् ॥३॥ इति तृतीयवत्तार्थः॥
निर्घन्धे प्रवचने । २ अर्थ भाषसे अर्हन्तः, सूत्रं ग्रनन्ति गणधरा निपुणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org