________________
१४ स्तुतिचतुर्विशतिका
[१ श्रीऋषमनिश्चलमित्यर्थः । कैः । नयैः ' अनेकान्तात्मके वस्तुनि नयाः प्रमाणपरिच्छिन्नार्थेकादेशाः तैः । कीदृशैः नयैः ।। नैगमः आद्यः येषां ते नैगमाद्याः तैः नैगमसङ्ग्रहप्रभृतिभिः नयरित्यर्थः । कस्माद्धेतोः नयः अक्षोमम !। 'मिथोऽनुगमनात् ' मिथ:-परस्परं अनुगमनं.-अनुवर्तनं तस्मात् । भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते सर्वनयात्मकत्वात् तस्येति भावः । “मिथोऽन्योन्यं रहस्यपि" इत्यमरः (श्लो० २८१७ ) । कथंभूतां शान्तिम् ? । ' अतुलाम् ' नास्ति तुला-साम्यं यस्याः सा तथा तां, महतीमित्यर्थः । " तुला पलशते राशौ, माण्डे सादृश्यमानयोः " इति विश्वः । कीदृशं प्रवचनम् ? । 'छितमदोदीर्णाइजालम् ' छितमदं च तत् उदीर्ण च इति · कर्मधारयः'। छितमदं-छिन्नदर्पम् उदीर्ण-उदारम् अङ्गानांआचाराङ्गादिसूत्राणां जालं-समूहो यत्र तत् तथा । “जालं समूह आनायगवाक्षक्षारकेप्वपि" इत्यमरः (श्लो० २७३१) । 'शाच्छोरन्यतरस्याम् ' (पा० अ०७, पा० ४, सू० ४१) इति विकल्पेन इकारान्तत्वे छित इति निष्पन्नम् । " लूने छिन्नं (छिन्ने लूनं ? ) छितं दितं खण्डितं (छेदितं ! ) वृक्णम् " इति हैम: ( का० १, श्लो० १२५-१२६ ) । पुनः कीदृशम् ।। कृतं-विरचितम् । कैः । जिनः । जयन्ति रागद्वेषौ इति जिना:-तीर्थकराः तैः अर्थतस्तैरेव भाषितत्वात् । 'जि जये । ' इण् सिनि ' इति नक् । पुनः कीदृशम् ? । 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम् । दृप्यन्ती-द वजन्ती या कुवाद्यावली-कुत्सिता वादिनः-कुवादिनः तेषां आवली-पतिः । “रानिलेखा ततिवींथी, मालाल्यावलिपतयः" इति हैमः (का० ६, श्लो० ५९) । सैव क्रूराभिप्रायात् रक्षोराक्षसः, अत्र लिङ्गभेदो न दोषाय । “लिङ्गभेदं तु मेनिरे" इति वचनस्य प्रामाण्यात् । तस्य भञ्जनामङ्गकारका ये हेतवो-युक्तयः साध्यगमका वा तैः लाञ्छितं-सहितम् । पुनः कीदृशम् । । अदः । प्रत्यक्षदृश्यम् । अदसः स्यमोलुंकि स्रोर्विसर्गे रूपम् । पुनः कीदृशम् ? । 'दीर्णाङ्गजालङ्कृतम्' अङ्गात्-शरीरात् जायते-उत्पद्यते इति अङ्गज:-कामः । “ कमनः कलाकेलिरनन्यजोऽङ्गनः" इति हैमः ( का० २, श्लो० १११)। दीर्णः-छिन्नः अङ्गजो यैस्ते दीर्णाङ्गनाः अर्थात् मुनयः तैः अलंकृतं-भूषितम्, सहितामतियावत् । प्रवचने मुनीनामेव प्राधान्येन निरूपणादात्मात्मवतोरभेदोपचारः । अत्र द्वितीयपदे अनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यः तथैव च दर्शितः। कीदृशैः जिनैः ? । पूज्यैः-अर्चनीयैः । केषाम् ? । 'जगता' अतिशयेन गच्छन्तीति जगन्ति तेषां जगताम् जगदन्तर्वर्तिजनानामित्यर्थः ॥३॥
सौ० वृ०-शान्तिमिति । हे जन ! हे लोक ! वो-युष्माकं तत् प्रवचनं अतुला शान्ति तनुतात इत्यन्वयः। तनुतात्' इति क्रियापदम्। किं कर्तृ?। 'प्रवचनं' गणिपिटकम् । तनुतात-विस्तारयतात् । कांकर्मतापन्नाम् । शान्ति'क्षमा मोक्षं वा । केषाम् ? । 'वः'युष्माकम् । किंविशिष्टां शान्तिम् । 'अतुला अनुपमाम् । किंविशिष्टं प्रवचनम् ? । 'तत्' प्रसिद्धम् । तत् किम् ? । यत् मिथोऽनुगमनात् नैगमाधैः नयैः अक्षोभं-अभञ्जनं अस्ति । 'अस्ति' इति क्रियापदम्। किं कर्तृ ? । यत् प्रवचनम् । अस्तीति विद्यते । कीर्श प्रवचनम् । अक्षोभम् । कैः कृत्वा ? । 'नयैः' अनेकान्तात्मके वस्तुनि एकान्तपरिच्छेदात्मका नयाः[तैः]। किंभूतैर्नयैः ? नैगमाद्यैः' नैगमसङ्गहन्यवहारर्जुसूत्रशब्दसमभिरूढएवम्भूताद्यैः सप्तनयैः। कस्मात् । 'मिथ' परस्परम। अनगमात-मिलनातापनः कीदृशं प्रवचनम् । छितः-क्षतःमदो-दर्पः तेन कृत्वा उदीर्णानिउत्कटानि अङ्गाना-आचारागादीनां दृष्टिवादादीनां वा जालं-समुदायो यत्र तत् छितमदोदीर्णाङ्गजालम् । पुनः की० प्रवचनम् ? । 'कृतं निर्मापितम् । कैः ? जिनः। कीदृशैः जिनैः ? । 'जगतां पूज्यैः' जगद्वन्यैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org