________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
शान्ति कथंभूताम् ? ' अतुला' महतीम् । प्रवचनं कथंभूतम् ? ‘कृतं' रचितम् । कै? 'जिनैः' तीर्थकरैः । कथंभूतैः १ 'पूज्यैः' अर्चनीयैः । केषाम् ? 'जगतां' त्रिभुवनानाम् । तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? यत् ' अक्षोभं क्षोभयितुमशक्यम् , निश्चलमित्यर्थः । कैः ? 'नयः' अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मकरूपैः । नयैः कथंभूतैः ? 'नैगमायैः । नैगम-संग्रहप्रभृतिभिः । कस्माद्धेतोः नयैरक्षोभम् ? — मिथोऽनुगमनात् । परस्परानुवर्तनात् । अयं भावः-भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते, सर्वनयात्मकस्वात् तस्य । पुनः कथंभूतं प्रवचनम् ? 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नद उदीर्णउदारं अङ्गाना-आचारागादीनां जालं-समूहो यत्र तत् तथा । पुनः कथंभूतम् ? ' दृप्यत्कुवाधावलीरक्षोभञ्जनहेतुलाञ्छितं । दृप्यन्ती-दर्प वजन्ती या कुवादिना आवली-श्रेणी सेव क्ररात्मकत्वेन रक्षो-राक्षसः। अत्र लिङ्गभेदो न दोषाय, " लिङ्गभेदं तु मेनिरे" इति वचनस्य प्रामाण्यात् । तस्य भञ्जना-भङ्गकारिणो ये हेतवस्ताञ्छितं-चिह्नितम् । अत एव । पुनः कथं - भूतम् ? 'दीणोङ्गजालङ्कतं ' दीण:-शीर्णः अङ्गजः-कामो येषां ते तथोक्ताः अर्थात् श्रमणादयस्तैरलङ्कतं-भूषितं सहितमिति भावः । अत्र द्वितीयपदे जनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये पाक प्रयोज्यस्तथैव च दर्शितः॥
___ अथ समासः- नैगम: आद्यो येषां ते नैगमाद्याः ‘बहुव्रीहिः'। तै गमाद्यैः न विद्यते क्षोभो यस्य तत् अक्षोभं ' बहुव्रीहिः । न विद्यते तुला यस्या असौ अतुला 'बहुव्रीहिः । ता अतुलाम् । छितमदं च तत् उदीर्णं च छित० 'कर्मधारयः । अङ्गानां जालं अङ्ग० 'तत्पुरुषः । छित. मदोदीर्ण अङ्गजालं यत्र तत् छित० 'बहुव्रीहिः । कुत्सिता वादिनः कुवादिनः ' तत्पुरुषः।। कुवादिना आवली कुवा० 'तत्पुरुषः । दृप्यन्ती चासौ कुवाद्यावली च दृप्य० 'कर्मधारयः । दृप्यनुवाद्यावल्येव रक्षो दृप्य 'कर्मधारयः। दृप्यत्कुवाद्यावलीरक्षसो भञ्जनाः दृप्यत्कु० 'तत्पुरुषः । दृप्यत्कुवाद्यावलीरक्षोभञ्जनाश्च ते हेतवश्व दृप्य० 'कर्मधारयः।। दृप्यत्कुवाचावलीर. क्षोभञ्जनहेतुभिर्लाञ्छितं दृप्यत्कु० ' तत्पुरुषः । दीर्णोऽङ्गजो यैस्ते दीर्णाङ्गजाः 'बहुव्रीहिः।। दीर्णाङ्गजैरलङ्कतं दीर्णाङ्ग.. ' तत्पुरुषः। ॥ इति काव्यार्थः ॥ ३ ॥
सि००-शान्तिमिति । हे जन ! हे भव्यप्राणिन् ! तत् प्रवचन-शासनं वो-युष्माकं शान्तिकल्याणं उपशमं वा तनुतात्-प्रथयतु इत्यर्थः। शमः शान्तिः, शमथोपशमावपि " इति हैमः ( का० २, श्लो. २१८) । 'तनु विस्तारे ' धातोः ‘आशी.प्रेरणयोः' (सा० सू० ७०३) परस्मैपदे प्रथमपुरुषैकवचनम् । तुप् ' तनादेरुप् ' ( सा० सू० ९९७), ' तुह्योस्तातङ् [ आ शिषि वा वक्तव्यः ] (सा० सू० ७०४) इति तातडादेशः । ' स्वरहीनम् ०' (सा० सू० ३६ )।तथा च तनुतादिति सिद्धम् । अत्र 'तनुतात् ' इति क्रियापदम् । किं कर्तृ ।। प्रवचनम् । कां कर्मतापन्नम् ? । शान्तिम् । “ शान्तिः शमेऽपि कल्याणे" इति विश्वः । केषाम् ? । वः । षष्टी चतुर्थी०' (सा० सू० ३३९) इति षष्ठीबहुवचने युष्मच्छब्दस्य वसादेशः। तच्छब्दस्य यच्छन्दसापेक्षत्वात् तत् किम् । यत् प्रवचनं अक्षोभ-क्षोमयितुमशक्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org