________________
स्तुतिचतुर्विशतिका
[१ श्रीऋषभ
देण्या०-तेवः पान्विति । ते जिनोत्तमा:-तीर्थकराः वो-युष्मान पान्तु-रक्षन्तु इत्यन्वयः। 'पा रक्षणे : धातुः । 'पान्तु इति क्रियापदम् । के कर्तारः । 'जिनोत्तमाः'जनाश्च ते उसमाश्च इति 'कर्मधारयः'। जिना:सामान्यकेवलिनः तेषु उत्तमाः-श्रेष्टा इत्यर्थः । “जिनः सामान्यकेवली' इत्यनेकार्थः। किंविशिष्टा जिनोत्तमाः ? 'क्षतरुजः' क्षता:- क्षयं प्रापिता: रुजो-रोगा यैस्ते तथा अवनीतलवर्तिसकलप्राणिनां आध्यात्मिकाधिदैविफाधिभौतिकरोगनिवर्तका इति भावः । यत्तदोर्नित्याभिसम्बन्धात् यन्मनः दारा:-कलत्राणि नाचिक्षिपुः-नक्षाभयामासुः इत्यन्वयः। 'क्षिप प्रेरणे' धातुः। 'आचिक्षिपुः' इति क्रियापदम् । के कर्तारः।।दाराः। दारशब्दो नित्यं पंल्लिङ्गो बहुवचनान्तश्च । किं कर्मतापन्नम् ।।' यन्मनः । येषां मनो यन्मनः इति समासः । किविशिष्टा दाराः। 'विभ्रमरोचिताः 'विभ्रमाः-कटाक्षाक्षेपाः रोचिताः-शोभिताः। तदुक्तम्
"हावो मुखधिकारः स्याद, भावश्चित्तसमुद्भवः। विकारा नेत्रजा ज्ञेया, विभ्रमा भ्रूसमुद्भवाः ॥"
इति । पुनः किं ।'सुमनसः' मुष्ठ मनो येषां ते तथा । पुनः किंविशिष्टाः ।। 'मन्दारवाराजिताः । मन्दःअतिशयेन स्वल्पः आरवः-शब्दो येषां ते मन्दारवाः ते च ते [आ]राजिताश्च इति समासः। “संख्या (ब्भ्यो) राव आरावः" इत्यभिधानचिन्तामणिः (का०६,श्लो०३६)। पृथग्विशेषणे इति प्राञ्चः। वस्तुतस्तु अमन्दा इति अकारप्रश्लेषः । न मन्दा-अमन्दाः अतिविवेकिन इत्यर्थः । रवेण-शब्दमात्रेण आरं-रिसमूहो रवार तेन अजिताः-अकृतजयाः ते तथा । अर्थक्रियासमर्था अरयो येषां न सन्त्येव, शम्दमात्रेण अरयः तैः अकृतजया इति भावः । तुः पुनरर्थे । तेन च-पुन: सुमनसः- पुष्पाणि यत्पादौ सुरभयांचक्रुः-सुरभयामासुरित्यर्थः 'दुकृञ् करणे । धातुः । 'सुरभयांचक्रुः । इति क्रियापदम् । काः कर्व्यः । सुमनसः । को कर्मतापनी? 'यत्पादो' येषां पादाविति समासः । किंविशिष्टाः सुमनसः ।। 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः। किं कुर्वत्यः सुमनसः ।। पतन्यः । कस्मात् । अम्बरात्-आकाशात् । पुनः किंविशिष्टाः । 'आराविभ्रमरोचिताः' आराविण:-शब्दायमानाः ये भ्रमरा:-षट्पदाः तेषां उचिताः-योग्याः । एतेन सौरभातिशयः सूचितः । पुनः किंवि.।'मन्दारवाराजिताः । मन्दार-कल्पवृक्षः तस्य पुष्पाणि मन्दाराणि तेषां वार:समूहः तेन अजिताः-अपरिभूताः । “मन्दारः कल्पपादपः" इत्यमरः । मन्दारवारः आ-समन्तात् जितो यया सा तथेति वा ॥ इति द्वितीयवृत्तार्थः॥२॥ जिनप्रवचनप्रशंसा
शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै
रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनः प्रवचनं दृप्यत्कुवाद्यावली___ रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कतम् ॥ ३ ॥
-शार्दूल. ज०वि०-शान्ति वस्तनुतादिति । हे जन ! तत् अदः प्रवचन-शासनं वयुग्माकं शान्ति-क्षेम • तनुतात्-प्रथयतु इति क्रियाकारकसंटङ्कः । अत्र 'तनुतात्' इति क्रियापदम् । किं कर्तृ ? 'प्रवचनम् । । कां कर्मतापन्नाम् ? ' शान्तिम् । । केषाम् ? 'प:'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org