________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका इति दुर्गः । पदित्यपि क्वचित् दृश्यते । यदाह - “पत्पादोख्रिश्चरणोऽस्त्रीषु' इति गौडः । “पदङ्त्रिश्चरणोऽस्त्रियाम् " इत्यमरः (श्लो० १२१६ ) च । परमेतयोरत्र न प्रयोजनम् । प्रसङ्गाद् व्युत्पत्तये प्रदर्शितमेतत् । कथंभूताः सुमनसः १ । 'सुरोज्झिताः' सुरैः-देवैः उज्झिता:-मुक्ताः । किं कुर्वत्यः सुमनसः ? । पतन्त्यः-गलन्त्यः । कस्मात् ।। अम्बरात्-आकाशात् । “ अम्बरं व्योमवाससोः" इत्यनेकार्थः । पुनः कथंभूताः ।। ' आराविभ्रमरोचिताः' आरावो-गुमगुमेति ध्वनिविशेषः विद्यते येषां ते आराविणः-शब्दायमाना ये भ्रमराः-द्विरेफाः तेषां उचिताः-योग्याः । अनेन सौरभातिशयः सचितः। पुनः कयंभूताः । । ' मन्दारवारानिताः' मन्दारो-देवतरुविशेषः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपराभूताः इति ' तत्पुरुषः' ।
__ " पञ्चैते देवतरवो, मन्दारः पारिजातकः ।।
सन्तानः कल्पवृक्षश्च, पुंसि वा हरिचन्दनम् ॥" इत्यमरः ( श्लो० ९९-१००) । " समूहवाचको वारः, वारो वेश्यागणः स्मृतः." इति सुभूतिः । मन्दारवारो-मन्दारपुष्पसमूहः जित:-पराभूतो यामिः इति वा । “ परापर्यमितो [ भूतो ] नितो भग्नः परनितः" इति हैमः (का. ३, श्लो० ४६९) ॥२॥
सौ० वृ०-ते कपान्त्विति।तेजिनोत्तमाः वो-युष्मान पान्तु इत्यन्वयः। 'पान्तु' इति क्रियापदम् । के कर्तारः ? । जिनोत्तमाः। कान कर्मतापन्नान्? । 'वः' युष्मान् । किविशिष्टाः जिनोत्तमाः । ते' प्रसिद्धाः। ते के!। यन्मनः सुमनसः दाराः न आचिक्षिपुः इति सम्बन्धः। 'आचिक्षिपुः' इति क्रियापदम् । के कर्तारः? । 'दाराः'कलत्राणि। 'आचिक्षिपुः' आचकृषुः । कथम् ? । 'न' निषेधे। किं कर्मतापन्नम् ? । 'यन्मनः' येषां तीर्थंकराणां मनः-चित्तम् । दाराः कस्य ? । 'सुमनसः' त्रिदशस्य । जातावेकवचनम् । किंविशिष्टा जिनोत्तमाः। 'क्षतरुजः' गतरोगाः। किंवि० दाराः ? । 'विभ्रमरोचिताः' विभ्रमा-हावभावविलासादयः तै रोचिताः-शोभिताः । पुनः किंवि० दाराः ? । 'मन्दारवाः' मन्दः-कोमलः आरवः-शब्दो यासां ता मन्दारवाः । पुनः किंवि० दाराः । 'राजिताः' लावण्यादिगुणैः शोभिताः । च-पुनः सुरोज्झिताः सुमनसः यत्पादौ सुरभयांचरित्यन्वयः। 'सुरभयांचः' इति क्रियापदम् । काः कर्यः ? । 'सुमनसः' पुष्पवृष्टयः । सुरभयांचः-सुगन्धीकृतवत्यः । को कर्मतापन्नौ ? । 'यत्पादो' यच्चरणौ। किविशिष्टाः समनसः । 'सुरोज्झिताः' देवमुक्ताः । 'पतन्त्यः' प्रगलन्त्यः । कस्मात् ? । 'अम्बरात्' आकाशात् । पुनः किंविशिष्टाः सुमनसः ? । आराविणः-शब्दायमानाः ये भ्रमरा-द्विरेफाः तेषां उचिताः-योग्याः । पुनः किंविशिष्टाः सुमनसः ।। मन्दाराणां-कल्पवृक्षाणां वारा:-समुदायाः तैरजिताः-अंनतिशायिताः । इति पदार्थः॥
अथ समासः-जयन्ति रागादीन् शत्रून् इति जिमाः-सामान्यकेवलिनः तेषु उत्तमाः जिनोत्तमाः । क्षता रुजो यैः येभ्यो वा क्षतरुजः । येषां मनः यन्मनः तत् यन्मनः । विभ्रमैः रोचिताः विभ्रमरोचिताः। मन्द आरवी यासां ताः मन्दारवाः । येषां पादौ यत्पादौ । सुरैः उज्झिताः सुरोज्झिताः । पतन्ति ताः तन्त्यः । आरावो येषामस्तीति आराविणः, आराविणश्च ते भ्रमराश्च आराविभ्रमराः, आराविभ्रमराण उचिताः आराविभ्रमरोचिताः। मन्दाराणां वाराःमन्दारवाराः, तैः मन्दारवारैः अजिताःमन्दारवाराजिताः। "सुमनाः पण्डिते पुष्पे, गोधूमे सज्जने सुरे" इत्यनेकार्थः ॥ इति द्वितीयवृत्तार्थः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org