________________
દૈવ
स्तुति चतुर्विशतिका
" हावो मुखविकारः स्याद, भावश्चित्तसमुद्भवः । विकारो नेत्रो ज्ञेयो, विभ्रमो समुद्भवः ॥
"3
इति केचित् । “योषितां यौवनजो विकारो विभ्रमः" इत्यन्ये । अपरे तु "मदहर्षरागजनितो विपर्यासो विभ्रमः” यथानिमित्तमासनादुत्थायान्यत्र गमनं प्रियकथामा क्षिप्य सख्या सहालापनं मुधैव हसितकोधौ पुष्पादीनां सहसैव परित्यागः वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं चेति वदन्ति । पुनः कीदृशाः ! | 'सुमनसः' शोभनानिसस्नेहानि मनांसि येषां ते तथा इति बहुव्रीहिः । पुनः कीदृशाः ? 'मन्दारवा राजिताः' मन्दो - मृदुः स्वल्पो वा आरवः शब्दो येषां ते तादृशाः सन्तो राजिताः- शोभिताः, यथा स्वस्वाम्येव शृणोति तथैव जल्पन्ति नोच्चैर्जल्पन्ति नान्येषां स्वं ज्ञापयन्तीति भावः । आहुश्च
" गतागतकुतूहलं नयनयोरपाङ्गगवधि
स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः
कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ "
इति 'रसमञ्जर्यं भानुकरमिश्राः । “मन्दोऽतीक्ष्णे च मूर्खे च वै ( स्वै) रे निर्भाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात् " इति मेदिनिः । वस्तुतस्तु अमन्दा ( इत्यत्र ) अकारप्रश्लेषः । न मन्दाः अमन्दाः, अतिविवेकिन इत्यर्थः । रवेण - शब्दमात्रेण आरं - अरिसमूहो रवारं तेन अजिताः - अकृतनयाः ते तथा । अर्थक्रियासम अरयो न सन्त्येव । शब्दमात्रेण ये अरयः तैः अकृतजया इति भावः । च पुनः सुमनसः - कुसुमानि यत्पादौ - येषां चरणौ सुरभयाञ्चक्रुः - सुरभीकुर्वन्ति स्मेत्यर्थः । ' डुकृञ् करणे ' धातोः कर्तरि परोक्षायां प्रथमपुरुषबहुवचनं उस्, णिदन्तः सुरभिर्नाम सौत्रो धातुः 'कासादिप्रत्ययात्' (सा०सू० ७६६ ) इत्याम् । अग्रे कृञ् धातुः तदग्रे उस् । 'द्विश्च' (सा०सू०७१०) इति धातोर्द्विर्वचनम् । कृ कृ उस् इति जातम् । 'र:' (सा० सू० ७६८) इत्यनेन पूर्वऋकारस्याकारः । 'कुहोश्धुः' (सा० सू० ७४६ ) इति पूर्वककारस्य चुत्वम् । तथा च चक्र उस् इति जातम् । ततः 'ऋ रम्' (सा०सू० ३९ ) इति ऋकारस्य रकारः । • स्वरहीमं [ परेण संयोज्यम् ]' (सा० सू० ३६ ) तथा च सुरभि आम् चक्रुः इति जातम् । आम्प्रत्ययस्य दशविध आख्यातव्यतिरिक्तत्वात् न ङित्वमिति । 'गुण' (सा०सू०६९२ ) इत्यनेन गुणः । 'ए अय्' (सा०सू०४१) 'स्वरहीनं०' (सा०सू०३६) एवं च सुरभयाञ्चक्रुः इति सिद्धम् । अत्र 'सुरभयाञ्चक्रुः' इति क्रियापदम् | काः कर्यः । सुमनसः । अत्रायं सुमनः शब्दः सकारान्तः पुष्पवाचको बहुवचनान्तो
मन्तव्यः । आह च
Jain Education International
[ १ श्री ऋषभ
66
आपः सुमनसो वर्षा, अप्सरस्तिकताः समाः । एते यो बहुत्वे स्युरेकत्वेऽप्युत्तरं त्रिकम् ॥
39
इत्यमरः ( ? ) । सुष्ठु मान्यते - पूज्यते आभिः इति समासः । "स्त्रियां वा बहुवचनान्तः ' इति हैम्यां नाममालावृत्तौ । अत एव " सुमनाः पुष्पमालस्योः स्त्रियां " इति गौडोऽप्यवदत् । लक्ष्यं च ' वेश्याः श्मशानसुमना इव वर्जनीयाः " इति शूद्रकः । कौ कर्मतापन्नौ । यत्पादौ । पादशब्दोऽयं अकारान्तः क्वचित् पाद् इति व्यञ्जनान्तोऽपि दृश्यते । यदाह - " पादसमानार्थः पाद् अप्यस्ति
99
For Private & Personal Use Only
www.jainelibrary.org