________________
जिमस्तुतयः]
स्तुतिचतुर्विशतिका आराविणश्च ते भ्रमराश्च आराविभ्रमराः 'कर्मधारयः ।। आराविभ्रमराणामुचिता आरा. 'तत्पुरुषः' । न जिता अजिताः 'तत्पुरुषः' । मन्दाराणां वाराः मन्दा० 'तत्पुरुषः। मन्दारबारैरजिता मन्दा. तत्पुरुषः । ॥ इति काम्यायः॥२॥
सि० वृ०-ते वः पान्त्विति । ते जिनोत्तमाः-जिनवराः वः-युष्मान् पान्तु-रक्षन्तु इत्यर्थः । 'पारक्षणे ' धातोः ' आशी:प्रेरणयोः' (सारस्वते स०७०३) परस्मैपदे प्रथमपुरुषबहुवचनम् । पा अग्रे अन्तु 'अप् कर्तरि' (सा०सू० ६९१) इत्यप् । अदादेलुक' (सा०सू० ८८०)। 'सवर्णे दीर्घः (सह)' (सा०सू० ५२) । तथा च पान्तु इति सिद्धम् । “जिनः सामान्यकेवली" *इति (अनेकार्थ) कोशात् जिनेषु-सामान्यकेवलिषु उत्तमाः जिनोत्तमाः इति सप्तमीतत्पुरुषः, 'न निर्धारणे'(पाणिनीये अ० २, पा० २, सू० १०) इति षष्ठीसमासनिषेधात् । कर्मधारये तु " परमोत्तमोत्कृष्टाः पूज्यैः” इति वचनात् उत्तमजिना इति स्यात् । “जिनः स्यादतिवृद्धे च, बुद्धे चार्हति जित्वरे'' इति विश्वः । वः इत्यत्र ‘बहुवचनस्य वस्नसौ ' (पा० अ० ८, पा० १, सू० २१) इति युष्मान् इत्यस्य वसादेशः । कथंभूता निनोत्तमाः ।। 'तरुनः ' क्षता:-क्षयं नीताः रुजो-रोगा यैस्ते तथा इति 'बहुव्रीहिः'। यत्तदोर्नित्यामिसम्बन्धात् त के ? । यन्मनः-येषां मनो यन्मनः दाराः-कलत्राणि न (आ) चिक्षिपुः -न क्षिप्तवन्तः, विकारमार्ग नायकृषः इत्यर्थः । क्षिप प्रेरणे' परोक्षे परस्मैपदे कर्तरि प्रथमपुरुषबहुवचनम् । क्षिप् अग्रे उस् धातोः 'द्विश्च' ( सा० सू० ७१०) इति द्वित्वम् । 'पूर्वस्य हसादिः शेषः' (सा० सू० ७३९) इति षकारलोपः । 'कुहोश्चः' (सा०सू० ७४६) इति ककारस्य चुत्वम् । 'णादिः कित्' (सा० सू० ७०९) इति कित्संज्ञत्वात् गुणाभावः। तथा च चिक्षिपुः इति सिद्धम् । दारशब्दोऽत्र कलत्रवाचकः पुंल्लिङ्गो नित्यं बहुवचनान्त एव । दारयन्ति दीर्यन्ते एभिः इति वा दाराः । ' दारजारौ कारि णिलुक् च ' (कात्यायनबार्तिके २१८२ ) इति क्वचित् पनि साधुः । " भार्या जायाऽथ पृभूम्नि, दाराः स्यात् तु कुटुम्बिनी " इत्यमरः (लो. १०८५ )। क्वचिदावन्तोऽप्युक्तः । यदुक्तम् -
"क्रोडा हावा तथा दारा, प्रय एते यथाक्रमम् ।
क्रोडे हावे च दारेषु, शब्दाः प्रोक्ता मनीषिमिः ॥" इति हट्टचन्द्रः । क्वचिदनावन्तोऽप्येकवचनान्तश्च " धर्मप्रजासंपन्ने दारे नान्यं कुर्वीत " इति हैम्यां नाममालावृत्तौ ।
" संतोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये ॥" इति चाणक्योऽप्याह । परमेतयोरत्र न ग्रहणम्, तथाप्रयोगाभावात् । प्रस्तुतानुपयोगित्वेऽपि व्युत्पत्तये प्रसङ्गादेतद् दर्शितमिति ध्येयम् । यन्मन इत्यत्र ‘यरोऽनुनासिकेऽनुनासिको वा' (पा०अ० ८, पा० ४, सू० ४५ ) इति दकारस्य नकारः । कीदृशा दाराः! । 'विभ्रमरोचिताः' विभ्रमाः-भ्रूसमुद्भवविलासाः तैः रोचिताः-शोमिताः इति तत्पुरुषः' । यदाहुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org