________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
अवनमवनीन्द्रस्फारकोटीरहीर
युतिपटलपयोभिधौतपादारविन्दः । स नयविजयलक्ष्मीदेवने देवकीभूजयति विजयासिंहः सूरिशार्दूलशावः ॥५॥
-मालिनी श्रीभानुचन्द्रा वरवाचकेन्द्रा
विद्यारसेन्द्रा विनयानतेन्द्राः । अकबरक्ष्मापतिलब्धमानाः साधुक्रियाकृत्यपरा बभूवुः ॥ ६॥
-उपजातिः तेषां पुरूणां गुणभाजनानां
शिष्य कलेशेन विधीयते मया। श्रीदेवचन्द्राभिधपण्डितेन व्याख्याविधिः शोभनशोभनस्तुतेः ॥७॥
-इन्द्रवंशा धनपालपण्डितबन्धुना श्रीशोभनसाधुना कृतानां पण्णवतिसंख्याकानां शोभनस्तुतीनां पण्डितदेवचन्द्रेण किंचिदर्थों लिख्यते । तत्रादौ श्रीनाभिनन्दनजिनस्तुतिमाह-भव्याम्भोजेति ।
व्याख्या प्रस्तूयते--तल्लक्षणं च "संहिता च पदं चैव इत्यादि । एतच्च स्वबुद्धया योजनीयम् । अन्धविस्तरभयात् मन्दमतीनां प्रतिपत्तिगौरवपरिहारार्थ बदतं (?) प्रतन्यते । हे नाभिनन्दन ! त्वं महान्-उत्सवार विदुषां-पण्डितानां संपादय-निष्पादयेत्यर्थः । ‘पद गतौ' धातुः। 'संपादय' इति क्रियापदम् । कः कर्ता। स्वम् । कान् कर्मतापन्नान् । महान् । केषाम् ? । विदुषाम् । 'भध्याम्भोजविबोधनकतरणे' इति । भव्या पव अम्भोजानि-पद्मानि तेषां विबोधन-प्रबोधनं तस्मिन् एकः-अद्वितीयः तरणिः-सूर्यः यः सः तस्यामन्त्रणम् । यथा सूर्यः स्वकरपरम्पराभिः अन्यतमसं विधूय पद्मवनानि प्रबोधयति, तथा भगवानपि स्वभारतीसंभारः मिथ्यात्वादिध्वान्तनिकर दूरीकृत्य भव्यप्राणिनां बोधं विधत्ते इति भावः । 'विस्तारिकर्मावलीरम्भासामज' इति । विस्तारिणी कर्मणां-ज्ञानावरणादीनां आवलिः(ली?)-श्रेणिः सब या रम्भा-कदली तस्यां सामजो-गजःयः सः तस्यामत्रणम् । यथा गजो लीलयैव रम्भामुन्मूलयति, तथा भगवता कर्माण्युन्मूल्यन्ते इति भावः। 'महानष्ठापद्' इति नष्टा चासो आपञ्चेति पूर्व 'कर्मधारयः । ततो महती नष्टा पद्-विपद् यस्मात् तस्यामन्त्रणम् । अत्र महतू शब्दस्य पुंवद्भावादीपो निवृत्तिः । 'वन्दितपादपद्म' इति। पादावेव पद्मं पादपद्मं इति पूर्व 'तत्पुरुषः । ततो वन्दितंनमस्कृतं पादपट्नं-चरणाम्भोजं यस्य सः तस्यामन्त्रणम् । कैः । असुरैः-भुवनपतिभिः । कया। मक्या। "आराध्यत्वेन ज्ञानं भक्तिः" इति वर्धमानचरणाः, तया । किंविशिष्टै असुरैः? । 'आभासुरैः' आ-समन्तात् भासुरैः-दीप्यमानैः । 'प्रोज्झितारम्भ' इति । प्रकर्षेण उज्झिता:-त्यक्ताः आरम्भाः-सावयव्यापारा येन सः तस्यामन्त्रणम् । 'असाम' इति । अमो-रोगः तेन सह वर्तमानः सामः, न सामः असामः तस्यामन्त्रणम् । 'जनाभिनन्दन' इति । जनान्-लोकान् अभिनन्दयति-आनन्दयति यः तस्यामन्त्रणम् । 'अष्टापदाभ' इति । अष्टापदं-सुवर्ण तन्त आभा-कान्तिः यस्य तस्यामन्त्रणम् । “आभा राढा विभूषा श्रीः" इत्यभिधानचिन्तामणिः (का०६. श्लो०१४८) पतानि सर्वाणि भगवतः सम्बोधनपदानि । इति प्रथमवृत्तार्थः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org