________________
स्तुतिचतुर्विंशतिका
[ १ श्रीऋषभ
म्बोध० हे जनाभिनन्दन ! । पुनः महत्यो नष्टा-गता आपदो विपदो यस्य यस्माद् वा स महानष्टापत् तस्य सम्बो० हे महानष्टापत् ! । त्वं विदुषां महान् सम्पादयेत्यन्वयः । ' सम्पादय' इति क्रियापदम् । कः कर्ता ! | त्वम् ।' सम्पादय' सम्यक् प्रकारेण निष्पादय - कुरु । कान् कर्मतापन्नान् ? । ' महान् उत्सवान् । केषाम् ? ।' विदुषाम् ' पण्डितानाम् । “ महः क्षणोद्भवोद्वर्षाः " इति हैमः (का० ६, श्लो० १४४ ) । किंविशिष्टैः असुरैः ? । आ - समन्तात् भासुरैः - देदीप्यमानैः । इति सम्बोधनप्रथमवृत्तार्थः ॥
·
अथ समासः -- भव्या एव अम्भोजानि भव्याम्भोजानि, भव्याम्भोजानां विबोधनं भदयाम्भोजविबोधनं, एकञ्चासौ तरणिच एकतरणिः, भव्याम्भोजविबोधने एकतरणिः भव्याम्भो० तरणिः तस्य सम्बो० हे भव्या० । विस्तारोऽस्या अस्तीति विस्तारिणी, कर्मणां आवली कर्मावली, विस्तारिणी चासौ कर्मावली च विस्तारिकर्मावली विस्तारिकर्मावली एव रम्भा विस्तारिकर्मावलीरम्भा, विस्ता० रम्भायां सामजः तस्य सम्बो० हे विस्तारि०रम्भासामज ! । नन्वयतीति नन्दनः, नामेर्नन्दनो नाभिनन्दनः तत्सम्बो० हे नाभिनन्दन ! | अष्टापदवत् आभा यस्य स अष्टापदाभः तस्य सम्बो० हे अष्टापदाभ ! । पाद एव पद्मं पादपद्मं वन्दितं पादपद्मं यस्य स वन्दितपादपद्मः तस्य सम्बो० हे वन्दितपादपद्म ! । प्रोज्झिता आरम्भा येन स प्रोज्झितारम्भः तत्सम्बो० हे प्रोज्झितारम्म ! | अमेन सहितः सामः, न सामः असामः तत्सम्बो० हे असाम ! | जनान् अभिनन्दतीति जनाभिनन्दनः तत्संबो० हे जनाभिनन्दन ! । महत्यो नष्टा आपदो यस्य स महानष्टापत् तत्सं० हे महानष्टापत् ! । आ-समन्तात् भासुरा आभासुराः तैः ' आभासुरैः ' । शार्दूलविक्रीडितम् ॥ १ ॥
श्रीदेवचन्द्रविहिता व्याख्या ।
प्रारम्भः
श्रेयःस्तोमतरङ्गिणीप्रियतमप्रोल्लास शीतयुतिं पापप्रोद्धृतपङ्कपूगशमनप्रोद्दामपाथोधरम् । वन्देऽहं जिनकुअरं गतजरामोहाघमायामयं प्रीत्यवेशवशः सदा सुखकरं देवार्यदेवं मुदा ॥ १ ॥ - शार्दूलविक्रीडितम्
Jain Education International
श्रीवर्धमानस्य शिशुः सुधर्मा सल्लब्धिपात्रं गणभृद् बभूव ।
श्रीहीरपूर्वी विजयाग्रसूरि'
रासीद् गुरुस्तस्य परम्परायाम् ॥ २ ॥ - इन्द्रवज्रा
परमागमगमसंगम-संस्कृत वचनस्त्वपास्तमानमलः । तत्पादमुकुटरत्नं जयतात् श्रीविजयसेनगुरुः ॥ ३ ॥
- आर्या
१ श्रीहीरविजयसूरिरित्यर्थः ।
श्रीविजयदेवसूरिस्तत्पट्टविभूषणं सदा जीयात् । श्रीमज्जैनमवचनप्रभावनाकृत्यविधिदक्षः ॥ ४ ॥
- आर्या
For Private & Personal Use Only
www.jainelibrary.org