________________
स्तुतिचतुर्विशतिका
[१ श्रीमपन
इह हि ग्रन्थारम्भे विशिष्टशिष्टाचारप्रतिगालनाय निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत् ' इति श्रुतियोधितकर्तव्यताकं स्वाभीष्टदैवतश्रीऋषभस्वामिस्तुतिरूपमेवादौ मङ्गलमाचरन्नाह-मन्याम्मोजेति । हे नाभिनन्दन ! नाभेर्नन्दनो नाभिनन्दनः । तत्पुरुषः ' तस्य संबोधनं हे नाभिनन्दन ! नाभिनरेन्द्रसनो! त्वं विदुषां-पण्डितानां महान-उत्सवान् संपादय-देहीत्यर्थः । ‘पद गतौ' धातुः संपूर्वः आशी:प्रेरणयोः परस्मैपदे मध्यमपुरुषैकवचनम् पदाग्रे हिः, 'चुरादेः' (सा० सू०१०३१) त्रिः ‘अत उपधायाः' इति वृद्धिः 'अप् कर्तरि ' इत्यप् गुणः । इत्यनेन गुणः । ए अय् ' ' अतः' इति हेलोपः । तथा च संपादय इति सिद्धम् । अत्र 'संपादय' इति क्रियापदम् । कः कर्ता ! । त्वम् । कान् कर्मतापन्नान् !। महान् । “महश्चो (स्त !)सकतेनसोः" इत्यमरः (श्लो० २७९७ ) । अदन्तोऽत्र महःशब्दः सकारान्तोऽप्यस्ति । यदाह
" नमं तु नमसा साकं, तयं च तपसा सह ।
रमं च रजसा साध, महं च महसा समम् ॥" इति विश्वः । विदुषां इत्यत्र 'विद्वच्छब्दस्य आमि परे 'वसोर्व उः' इति वस्योत्वे सकारस्य 'क्विलात्' इति षत्वे च विदुषामिति सिद्धम् । अपराणि सर्वाणि मगवतः संबोधनानि । तेषां व्याख्या त्वेवम् । हे 'मन्याम्मोजवियोधनैकतरणे' ! भव्या-मुक्तियोग्या मन्तपः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विमोधनंप्रबोधनननं तत्र एक:-अद्वितीयो यः तरणिरिव तरणिः-सूर्यः तस्य संबोधनं हे मन्याम्मोजविबोधनकतरणे।। यथा सूर्यः स्वकिरणैः अन्धकारं विनाश्य पद्मवनानि-कमलवनानि प्रबोधयति, तथा भगवानपि स्ववचनैः मिथ्यात्वतिमिरं दृरीकृत्य भव्यानां प्रबोधं विदधातीति भावः । हे 'विस्तारिकर्मावलीरम्मासामज' ! विस्तारिणीप्रसरणशीला या कर्मावली-कर्मणां ज्ञानावरणादीनां आवली-श्रेणिः सैव रम्मा-कदली तस्यां सामन इस सामजो-गजः तस्य सं० हे विस्तारिकावलीरम्भासामज ! । “ सामवेदाज्जातः सामनः" इति निरुक्तिः । " सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः " इति श्रुतेः । यथा हस्ती लीलयैव रम्मामुन्मूलयति, तथा प्रभुणाऽपि विनाऽऽयासेन कर्माण्युन्मूल्यन्ते इति भावः । हे ' महानष्टापत् !! महत्यो नष्टा आपदो-विपत्तयो यस्मात् यस्य वा इति 'बहुव्रीहिः' तथा तस्य संबो. हे महानष्टापत् ! । महच्छब्दस्य स्त्रियां 'पुंवद्वा' (५२२) इति पुंवद्भावात् ईपो निवृत्तिः ‘आन्महतः समानाधिकरण' इति टेरात्वं च । हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादावेव पने-कमले यस्य इति 'बहुव्रीहिः स तथा तस्य संबो हे वन्दितपादपद्म!| "पद्यते-चरति अत्र लक्ष्मीः इति पद्म" इति निरुक्तिः । "वा पुसि पद्मं नलिनमरविन्दं महोत्पलम्" इत्यमरः (श्लो० ५४५)। कैः । असुरैः-भवनवासिदेवविशेषैः। "असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः" इत्यमरः (श्लो०२३)। कीदृशैः। आभासुरैः-आमासनशीलैः। आ-ईषत् सुरापेक्षया भासुरैः-दीप्यमानैरिति वा। "आडीपदर्थेऽमिव्याप्तौ सीमार्थे योगजेऽपि च (धातु योगजे?)" इत्यमरः (श्लो० २८१४) । कया? | भक्त्या । भक्ति:-श्रद्धा पूज्येष्वनुराग इतियावत् । तथा "श्रद्धाव(र) चनयोर्भक्तिः" इत्यमरः (?) "आराध्यत्वेन ज्ञानं भक्तिः' इति तु न्यायविदः। हे 'प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यकः आरम्भः-सावद्यन्यापारो-हिंसात्मको दो वा येन इति 'बहुव्रीहिः' स तथा तस्य संवो हे प्रोज्झितारम्म||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org