________________
स्तुतिचतुर्विंशतिका
[१ श्रीऋपमभव्याम्भोजेति । हे नाभिनन्दन !-हे नाभिनरेन्द्रसूनो! त्वं विदुषां-पण्डितानां महान्उत्सवान् सम्पादय-देहि इति क्रियाकारकसंटङ्कः । तत्र 'सम्पादय ' इति क्रियापदम् । कः कर्ता ? ' त्वम् ' । कान् कर्मतापन्नान् ? ' महान् । । केषाम् ? ' विदुषाम् । । अपराणि सर्वाणि सम्बोधनानि । तेषां व्याख्या यथा- हे 'भव्याम्भोजविबोधनकतरणे'! भव्या:-मुक्तियोग्या जन्तवः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विवोधने-विवोधजनने एक:-अद्वितीयः तरणिः-सूर्यः तत्सम्बोधनं हे भव्या०। हे 'विस्तारिकर्मावलीरम्भासामा विस्तारिणी या कर्मावली-कर्मश्रेणी तद्रूपा या रम्भा-कदली तत्र सामजो-हस्ती तदुन्मूलकत्वात् तत्सम्बोधनं हे विस्तारि० । हे ‘महानष्टापत्' ! महत्यो नष्टा आपदो यस्मात् यस्य वा स तथा तत्सम्बोधनं हे महानष्टा०। हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादपद्मे-चरणकमले यस्य स तथा तत्सम्बोधनं हे वन्दितपाद० । कैः ? 'असुरैः' भवनवासिभिर्देवविशेषैः । कथंभूतैः ? ' आभासुरैः' आभासनशीलैः । कया ? ' भक्त्या'। हे 'मोज्झितारम्भ'! प्रोज्झित:-प्रकर्षेण त्यक्तः आरम्भा-सावध. व्यापारो येन स तथा तत्सम्बोधनं हे मोज्झितारम्भ ! हे ' असामन सामः-सरोगः असाम: तत्सम्बोधनं हे असाम ! । हे. 'जनाभिनन्दन' ! जनानां अभिनन्दनः प्रह्लादनः तत्सम्बोधनं हे जनाभिनन्दन! हे ' अष्टापदाभ ' ! अष्टापदं-सुवर्ण तद्वत आभा-कान्तिर्यस्य स तथा तत्स. म्बोधनं हे अष्टाप०॥
___ अथ समास:-भध्या एवाम्भोजानि भव्याम्भोजानि 'कर्मधारयः ।। भव्याम्भोजाना विवोधनं भव्या० 'तत्पुरुषः । एकश्चासौ तरणिश्च एक० 'कर्मधारयः'। भव्याम्भोजविवोधने एकतरणिः भव्या० 'तत्पुरुषः' । तत्सम्बोधनं हे भव्या । कर्मणां आवली कर्मावली 'तत्पुरुषः । विस्तारिणी चासौ कर्मावली च विस्तारि० कर्मधारयः । विस्तारिकर्मावली चासौ रम्भा च विस्तारि० 'कर्मधारयः। विस्तारिकर्मावलीरम्भायां सामजः विस्तारि० तत्पुरुषः । तत्सम्बोधन हे विस्तारि० । नाभेर्नन्दनः नाभि० तत्पुरुषः' । तत्सम्बोधनं हे नाभि० । महत्यो नष्टा आपदो यस्य, यस्माद् वा स महानष्टापत् 'बहुव्रीहिः । तत्सं० हे महा० । पादावेव पने पादपो 'कर्मधारयः । वन्दिते पादपद्म यस्य स वन्दित० 'बहुव्रीहिः । तत्सम्बो० हे वन्दि । प्रोज्झित आरम्भो येन स पोज्झि० 'बहुव्रीहिः । । तत्सं० हे प्रोझि० । सह आमेन वर्तते यास सामः । तत्पुरुषः ।न सामः असामः 'तत्पुरुषः। तत्सं० हे असाम !। जनानां अभिनन्दनः जना० ' तत्पुरुषः' । तत्सं० हे जना० । अष्टापदस्येव आभा यस्य सोऽष्टाप० 'बहुव्रीहिः । तत्सं० हे अष्टा० । इति काव्यार्थः ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org