________________
श्रीशोभनगुनीश्वरकृता
1 २३ श्रीपाश्चेजिनस्तुतयः
अथ श्रीपार्श्वनाथाय प्रार्थनामालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा
ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पार्यो । रुचिररुचिरदो देवराजीवराजी
पत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥१॥
-स्त्रग्धरा
जिनेश्वराणां स्तुति:
राजी राजीववक्त्रा तरलतरल सत्केतुरङ्गत्तुरङ्ग
व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या । सारा साऽऽराज्जिनानामलममलमतेर्बोधिका माऽधिकामा -
दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ २ ॥-स्रग्० जिनवाण्या विचार:
सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री' शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा
ऽऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥ ३ ॥-लग्० श्रीवेरौव्यायाः स्तुति:
याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता
ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासातू त्रायतां त्वामविषमविषद्भूषणाऽभीषणा भी
हीनाऽहीनाग्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ४ ॥ २३॥ स्रग्०
१ 'माऽऽधिकामा' इत्यपि पदच्छेदः २ 'शास्त्रीशास्त्रीनराणाम्' इत्यपि पदच्छेदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org