SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुविशतिका । २२ श्रीनेमिजिनस्तुतयः । अथ श्रीनेमिनाथाय नमस्कार: चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्यसङ्ख्यं क्षणा दक्षामं जैन ! भासमानमहसं 'राजीमतीतापदम् । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामन्जनभासमानमहसं राजीमतीतापदम् ॥ १॥ -~-शार्दूलविक्रीडितम् जिनश्रेण्याः स्तुतिः प्राब्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवाद् या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा__ यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥२॥ -शार्दूल. जिनवाणीगौरवम् कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ३ ॥ -शार्दूल. अम्बादेव्याः स्तुतिः हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥ ४॥२२॥ -शार्दूल. १'यो लक्ष्य.' 'यो लक्षसंख्य ''योऽलक्षसंख्य ' इत्यपि पाठः । २ 'जनभासमान.' इति पाठोऽपि समीचीनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy